SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ.५ सू. १७- २३ प्रातिहारिक सागारिकसत्कदण्डादेरुक्तकालेऽप्रत्यर्पणनि० १४३ छाया- यो भिक्षुः सागारिकसत्कं पादप्रछनकं याचित्वा 'तस्यामेव रजन्यां प्रत्यपयिष्यामी - 'ति श्वः प्रत्यर्पयति प्रत्यर्पयन्तं वा स्वदते || सू०१७ | चूर्णी - 'जे भिक्खू सागारिय०' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षु श्रमण श्रमणी वा 'सागारियसंतियं' सागारिकसत्कम् - सागारिको गृहस्थः तत्सत्कं तत्सम्बन्धि 'पायपुंछणं जाइत्ता' पादप्रछनकं याचित्वा । शेषं पञ्चदशसूत्रवद् व्याख्येयम् ॥सू० १७|| सूत्रम् - जे भिक्खू सागारियसंतियं पायपुंछणं जाइत्ता 'सुए पच्चप्पिणिस्सामि'- त्ति तमेव स्यणि पच्चप्पिणइ पच्चष्पिणंतं वा साइज्जइ ॥ छाया - यो भिक्षुः सागारिकसत्कं पादप्रछनकं याचित्वा श्वः प्रत्यर्पयिष्यामी-ति' तस्यामेव रजन्यां प्रत्यर्पयति प्रत्यर्पयन्तं वा स्वदते ॥ सू० १८ ॥ चूर्णी - 'जे भिक्खू सागारिय' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः 'सागारियसंतियं' सागारिकसत्कम् गृहस्थस्वामिकं यद् उपाश्रये स्थितं तत् 'पाय पुंछणं जाइत्ता' पादप्रोछनकं याचित्वा शेषं षोडशसूत्रवद् व्याख्येयम् || सू० १८ ॥ सूत्रम् -- जे भिक्खू पाडिहारियं दंडयं वा लट्ठियं वा अवलेहणियं वा वेणुसूई वा जाइत्ता एवं एएहिं दोहिं वि चैव पाडिहारिय- सागारियमहिं दो दो आलावगा यव्वा ॥ सू० १९ ॥२०॥ २१ ॥ २२ ॥ छाया -यो भिक्षुः प्रातिहारिकं दण्डक वा यष्टिकां वा अवलेहनिकां वा वेणुसूच वा याचित्वा, एवम् एताभ्यां द्वाभ्यामप्येव प्रातिहारिक- साग्ररिकगमकाभ्यां द्वौ द्वौ आलापकौ ज्ञातव्यौ । सू० १९ । २० । २१ । २२ ॥ चूर्णो - 'जे भिक्खू पाडिहारिय०' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षु: 'पाडि - हारियं' प्रातिहारिकम् पुनः प्रत्यर्पणयोग्यम् 'दंडयं वा' दण्डकं वा, तत्र दण्डः पूर्वोक्तस्वरूपस्तम् 'लट्ठियं वा' यष्टिकां लघुदण्डरूपां वा रुग्णाद्यवस्थायां ग्रहणयोग्याम् 'अवलेहणियं वा' अवलेहनिकां वा, तत्र चरणादि संलग्नकर्दमादिकं यया अपनीयते सा वेत्रप्रभृतिनिर्मिता क्षुरिकादिसदृशवस्तु विशेषरूपा, ताम् अवलेहनिकाम्, तथा 'वेणुखई वा' वेणुसूचीं वा वंशनिर्मितां सूचीम् ' जाइत्ता' याचित्वा श्रावकात् तद्याचनां कृत्वा 'एवं एएहि' इत्यादि - एवम् अनेनैवाऽऽलापकप्रकारेण एताभ्यां पूर्व प्रदर्शिताभ्यामपि द्वाभ्यामेव, कीदृशाभ्यामित्याह - 'पडिहारिय ० ' इत्यादि - " प्रातिहारिक-सागारिकसत्करूपाभ्यां गमकाभ्यां प्रत्येकस्य द्वौ द्वौ आलापकौ कर्त्तव्यौ, तथाहि - प्रातिहारिकस्य दण्डकादिकस्य तस्मिन्नेव दिवसावसाने प्रत्यर्पयिष्यामीति कथयित्वा श्वः प्रात काले प्रत्यर्पयतीति तद्विषयकं सूत्रम् શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy