SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ શક્કર निशीथसूत्रे श्रावकादिभ्यो गत्वा कथितम् - मह्यं रजोहरणं देहि अहं पुनः कार्य संपाद्य तस्यामेव रजन्यां रात्रौ प्रत्यर्पयिष्यामि रात्रेः प्रागेवेत्यर्थः, रात्रौ आदानप्रदानस्य निषिद्धत्वात् रजनीतिपदं दिवसावसानबोधकम् , इत्येवं प्रकारेण याचनां कृत्वा रजोहरणमानीतवान् किन्तु 'सुए पच्चप्पिणई' श्वः प्रत्यर्पयति श्वः परदिने प्रातःकाले रात्रिव्यपगमानन्तरं प्रत्यर्पयति रजोहरणम्, तथा 'पच्चप्पिणंतं वा साइज्जइ' प्रत्यर्पयन्तं वा स्वदते । यो हि रजोहरणादिकं तदिवसमात्रस्य कृते याचित्वा आनीतवान् , यद्यपि प्रातिहारिक रजोहरणमाहारवस्त्रपात्रादि कम्बलं च न कल्पते साधूनामिति रजोहरणस्य प्रातिहारिकत्वेन याचनं न संगच्छते तथापि अकस्मात् चौरादिना अपहृतम् , अग्निना दग्धं, कुत्रापि विस्मृतं चेद् रजोहरणं भवेत् तदा तात्कालिककार्यकरणाय तद्याचनस्य संभवः किन्तु प्रत्यर्पयति द्वितीयदिने प्रातःकाले । एतादृशं श्रमणं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति मृषावादादिदोषसंभवात् , तथा एतादृशस्याज्ञाभङ्गादयोऽपि दोषा भवन्तीति ॥सू० १५॥ सूत्रम्--जे भिक्खू पाडिहारियं पायपुंछणं जाइत्ता 'सुए पच्चप्पिणिस्सामि'-त्ति तमेव रयणिं पच्चप्पिणइ पञ्चप्पिणतं वा साइज्जइ । सू०१६। छाया–यो भिक्षुः प्रातिहारिकं पादपोंछनकं याचित्वा 'श्वः प्रत्यर्पयिष्यामी'-ति तस्यामेव रजन्यां प्रत्यर्पयति प्रत्यर्पयन्तं वा स्वदते ॥सू०१६॥ चूर्णी-'जे भिक्खू पाडि हारियं' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'पाडिहारियं' प्रातिहारिकं पुनः प्रत्यर्पणयोग्यम् 'पायपुंछणं' पादपोंछनकं 'जाइत्ता' याचित्वा श्रावकेभ्यो पादपोंछनस्य याचनां कृत्वाऽऽनीतं 'सुए पच्चप्पिणिस्सामि'-त्ति श्वः प्रातःकाले प्रत्यर्पयिष्यामि, अर्थात् कश्चित् साधुः श्रावकगृहं गत्वा कथयति-'भोः ! मह्यमेकं पादपोंछनक देहि कार्य कृत्वा प्रातः पुनः प्रत्यर्पयिष्यामि' इति कथयित्वा श्रावकेभ्यो पादपोंछनकं गृह्णाति किन्तु 'तमेव रयणिं पच्चप्पिणई' तस्यामेव रजन्यां-रजनीमुखे दिवसावसाने प्रत्यर्पयति, यदिवसे एव याचनां कृत्वा द्वितीयदिवसे दातुं कथयित्वा आनीतवान् तत् तस्यामेव रात्रौ रात्रेः पूर्वमेव पुनः प्रत्यर्पयति, तथा 'पञ्चप्पिणंतं वा साइज्जइ' प्रत्यर्पयन्तं वा वा स्वदते, प्रातःकाले प्रत्यर्पयिष्यामीति कथयित्वा प्रातिहारिकं रजोहरणं याचित्वा आनीतवान् परन्तु तद्रात्रेः प्रागेव प्रत्यर्पणं करोति, तादृशं श्रमणं योऽनुमोदते स प्रायश्चित्तभागी भवति, एवं करणे साधोर्वचने मृषावाददोषापत्तिः स्यात् । सूत्रम्-जे भिक्खू सागारियसंतियं पायपुंछणं जाइत्ता तमेव रयणि पच्चप्पिणिस्सामि'-त्ति सुए पच्चप्पिणइ पच्चप्पिणतं वा साइज्जइ ॥ सू० १७॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy