SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ०५ सू०१४-१६ प्रातिहारिकपादप्रोञ्छनस्योक्तकाले प्रत्यर्पणनि० १४१ सूत्रम्-जे भिक्खू पिउमंदपलासयं वा पडोलपलासयं वा बिल्लपलासयं वा सीओदगवियडेण वा उसिणोदगवियडेण वा संफाणिय संफाणिय आहारेइ आहारतं वा साइज्जइ ॥सू० १४॥ छायायो भिक्षुः पिचुमन्दपलासकं वा पटोलपलासकं वा बिल्वपलासकं वा शीतोदकविकटेन वा उष्णोदकविकटेन वा संफाणिय संफाणिय आहरति आहरन्तं वा स्वदते ॥ सू० १४॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पिउमंदपलासयं वा' पिचुमन्दपलाशकं वा, तत्र पिचुमन्दः निम्बवृक्षः, तस्य पलाशकं पत्रं वा 'पडोलपलासथं वा' पटोलपलाशकं वा, तत्र पटोलो लताविशेषः 'परवल' इति भाषाप्रसिद्धः, तस्य पलाशकं पत्रम् , तद्वा बिल्लपलासयं वा' बिल्वपलाशकं वा, तत्र बिल्वो बिल्ववृक्ष 'बिल्ली' 'बेल' इति प्रसिद्धः, तस्य पलाशकं पत्रम् । एतेषां पत्राणां भक्षणस्य दर्शनान्तरीयसाधौ प्रसिद्धत्वेनात्र तस्य प्रतिषेधो वर्णितः, किन्त्वत्र पत्रमात्राणां सर्वेषां पत्राणां ग्रहणं बोध्यम् , तेषां सजीवत्वेन जीवविराधनात् , तादृशानि सचित्तानि पत्राणि 'सीओदगवियडेण' शीतोदकविकटेन वा, तत्र विकटेन व्यपगतजीवेन अचित्तशीतजलेन तण्डुलघावनादिजलेनेत्यर्थः, अथवा 'उसिणोदगवियडेण वा' उष्णोदकविकटेन वा व्यपगतजीवेनोष्णोदकेन अचित्तोष्णोदकेनेत्यर्थः, 'संफाणिय संफाणिय' तत्र 'संफाणिय' इति देशी शब्दस्तेन 'संफाणिय' इति फेनयुक्तानि कृत्वा कृत्वा, तथा च अचित्ताभ्यां शीतोष्णजलाभ्यां सम्यक् तादृशपत्राणि संमद्य संमर्चेत्यर्थः 'आहारेई' आहरति तेषां भक्षणं करोति, तथा 'आहारतं वा साइज्जई' आहरन्तं वा स्वदते । निम्बादिवृक्षपत्राणामचित्तजलेन प्रक्षालन कृत्वा आहारं कुर्वन्तं स्वदतेऽनुमोदते स प्रायश्चित्तभाग भवति ॥ सू० १४॥ सूत्रम्--जे भिक्खू पाडिहारियं पायपुंछणं जाइत्ता 'तमेव रयणि पच्चप्पिणिस्सामि'-त्ति सुए पञ्चप्पिणइ पच्चप्पिणतं वा साइज्जइ ॥सू० १५॥ छाया-यो भिक्षुः प्रातिहारिकं पादपोंछनकं याचित्वा 'तस्यामेव रजन्यां प्रत्यर्पयिध्यामी'-ति श्वः प्रत्यर्पयति प्रत्यर्पयन्त वा स्वदते ॥सू० १५।। चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः ‘पाडिहारियं पायपुंछणं' प्रातिहारिकं पादपोंछनकम् , तत्र श्रावकादिभ्य आनीतं प्रत्यर्पणयोग्यं वस्तु प्रातिहारिकमिति कथ्यते, तथा पादपोंछनकं रजोहरणम् 'जाइत्ता' याचित्वा 'तमेव रयणि पच्चप्पिणिस्सामि'-त्ति तस्यामेव रजन्यां प्रत्यर्पयिष्यामीति, सूत्रे 'तमेव रयणि' इत्यत्र सप्तम्यर्थे द्वितीया प्राकृतत्वात् , શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy