________________
१३८
निशीथसूत्रे
स भिक्षुराज्ञाभङ्गादिकान् दोषान् प्राप्नोति । तथा सचित्तवृक्षमूले स्थितस्य भिक्षोर्हस्तपादादिना वृक्षस्य संघट्टनं भवेत् तदा तस्य त्रसस्थावरजीवादिविराधनं भवति तेन संयमविराधना, तथा छाया) तत्पत्रादिभक्षणार्थ शरीरसंघर्षणार्थ वा समागततिर्यगादिभ्य उपघातोपि भवति तेनात्मविराधना भवति तस्मात् सचित्तवृक्षमूले स्थित्वा साधुना कायोत्सर्गादिकं न कर्तव्यमिति ॥सू०२॥
सूत्रम्--जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा असणं वा पाणं वा खाइमं वा साइमं वा आहारेइ आहारतं वा साइज्जइ ॥ सू० ३॥
छाया-यो भिक्षुः सचित्तवृक्षमूले स्थित्वा अशनं वा पानं वा खाद्य वा स्वाद्य वा आहरति आहरन्तं वा स्वदते ॥सू० ३॥
__चूर्णी-'जे भिक्खू' इत्यादि । एवं सचित्तवृक्षमूले स्थित्वाऽशनादेराहारोऽपि न कर्त्तव्य इति ॥सू० ३॥
सूत्रम्-जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा उच्चारपासवणं परिट्ठवेइ परिहवेतं वा साइज्जइ ॥ सू० ४ ॥
___ छाया-यो भिक्षुः सचित्तवृक्षमूले स्थित्वा उच्चारप्रस्रवणं परिष्ठापयति परिष्ठा पयन्तं वा स्वदते ॥सू० ४॥
चूर्णी—'जे भिक्खू, इत्यादि । एवं सचित्तवृक्षमूले स्थित्वा उच्चारप्रस्रवणादिपरिष्ठापनमपि न कर्त्तव्यम् ॥सू०४॥
सूत्रम्-जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा सज्झायं करेइ करें। वा साइज्जइ ॥ सू ५॥
छाया -यो भिक्षुः सचित्तवृक्षमूले स्थित्वा स्वाध्यायं करोति कुर्वन्तं वा स्वदते। चूर्णी- 'जे भिक्खू' इत्यादि । अस्मिन् सूत्रे स्वाध्यायनिषेधः प्रतिपादितः ॥सू०५॥
सूत्रम्-जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा सज्झायं उदिसइ उद्दिसंतं वा साइज्जइ ॥ सू० ६॥ ___छाया-यो भिक्षुः सचित्तवृक्षमूले स्थित्वा स्वाध्यायमुद्दिशति उद्दिशन्तं वा स्वदते ॥ सू ६॥
चूर्णी-'जे भिक्खू' इत्यादि । अस्मिन् सूत्रे सचित्तवृक्षमूले सूत्रार्थतदुभयरूपस्वाध्यायस्य पाठनं निषिद्धम् ॥सू० ६॥
सूत्रम्--जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा सज्झायं समुद्दिसइ समुदिसंत वा साइज्जइ ॥ सू०७॥
શ્રી નિશીથ સૂત્ર