SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ०५ सू०७-१३ अन्यतीर्थिकादिभ्यः संघाटिकासीवनादिनिषेधः १३९ छाया -यो भिक्षुः सचित्तवृक्षमूले स्थित्वा स्वाध्यायं समुद्दिशति समुद्दिशन्तं वा स्वदते ॥ सू० ७ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । अत्र पूर्वोक्तस्वाध्यायस्य वारं वारं पाठनं, परेभ्यः समुपदेशचेति द्वयमपि निषिद्धम् ॥सू० ७॥ सूत्रम् - - जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा सज्झायं अणुजाणइ अनुजातं वा साइज्जइ ॥ सू० ८ ॥ छाया -यो भिक्षुः सचित्तवृक्षमूले स्थित्वा स्वाध्यायमनुजानाति अनुजानन्तं वा स्वदते ॥ ० ८ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । स्वाध्यायादिकरणार्थमाज्ञाप्रदानमनुज्ञानम्, अन्यत् सर्वं पूर्ववदेवेति ॥ सू० ८ ॥ सूत्रम् - जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा सज्झायं वाएइ वाएंतं वा साइज्जइ ॥ सू० ९ ॥ छाया - यो भिक्षुः सचित्तवृक्षमूले स्थित्वा स्वाध्यायं वाचयति वाचयन्तं वा स्वदते ॥ सू० ९॥ चूर्णी - 'जे भिक्खू' इत्यादि । तत्र वाचयति वाचनां ददाति तथा वाचनां ददत स्वदतेऽनुमोदते, अन्यत्सर्वे पूर्ववदेव ॥ सू० ९ ॥ सूत्रम् — जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा सज्झायं पडिच्छइ पडिच्छतं वा साइज्जइ ॥ सू० १० ॥ छाया- यो भिक्षुः सचित्तवृक्षमूले स्थित्वा स्वाध्यायं प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ सू० १०॥ चूर्णी – 'जे भिक्खू' इत्यादि । एवं पूर्वोक्तप्रकारेण सचित्तवृक्षमूले स्थित्वा स्वाध्यायं प्रतीच्छति आचार्येभ्यः प्रदत्तां वाचनां गृह्णाति तथा वाचनां गृह्णन्तं स्वदतेऽनुमोदते ॥सू० १०॥ सूत्रम् — जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा सज्झायं परियट्टइ परियतं वा साइज्जइ ॥ सू० ११ ॥ छाया - यो भिक्षुः सचित्तवृक्षमूले स्थित्वा स्वाध्यायं परिवर्तयति परिवर्तयन्तं वा स्वदते || सू० ११॥ चूर्णी - जे भिक्खू' इत्यादि । एवं पूर्वोक्तप्रकारेण सचित्तवृक्षमूले स्थित्वा स्वाध्यायं परिवर्तयति पूर्वाधीतस्याऽऽवर्तनं करोति, तथा परिवर्तयन्तं वा स्वदत्तेऽनुमोदते ॥ सू० ११ ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy