________________
चूर्णिभाष्यावचूरिः उ० ५ सू० २-६ सचित्तवृक्षमूलेस्थित्वाऽऽलोकनादिसर्वनिषेधः १३७
सूत्रम्-जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा आलोएज्ज वा पलो. एज्ज वा आलोएंतं वा पलोएत वा साइज्जइ । सू० २॥
__छाया-यो भिक्षुः सचित्तवृक्षमूले स्थित्वा आलोकयेद्वा प्रलोकयेद्वा आलोकयन्तं वा प्रलोकयन्तं वा स्वदते ॥सू० २॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'सचित्तरुक्खमूलंसि' सचित्तवृक्षम्ले, प्रकृतसूत्रं सचित्तवृक्षमूलगतसचित्तभूमिपरकम् , तत्र स्थित्वा यो भिक्षुः 'आलोएज्ज वा' आलोकयेत्-ऊधिस्तिर्यक्षु दिक्षु विदिक्षु काञ्चिदेकां दिशमाश्रित्य पश्येत् एफवारं वा पश्येत् 'पलोएज्ज वा' प्रलोकयेत्-सर्वासु दिक्षु विदिक्षु ऊर्ध्वमधो वारं वारं वा पश्येत् तथा 'आलोएंतं वा पलोएतं वा साइज्जई' आलोकयन्तं वा प्रलोकयन्तं वा स्वदते । यो हि साधुः सचित्तवृक्षम्ले स्थित्वा एकवारमनेकवारं वा आलोकयति तस्यानुमोदनां वा करोति स प्रायश्चित्तभागी भवति । वृक्षमूलं द्विविधं सपरिग्रहं वा अपरिग्रहं वा, सपरिग्रहं तु चतुर्विधम्दिव्यमनुजतियमिश्रपरिगृहीतभेदात् । तत्र दिव्यपरिगृहीतं देवाधिष्ठितम् १, एवं मनुष्यपरिगृहीतं मनुष्याधिष्ठितम् २, तिर्यपरिगृहीतं तियंगधिष्ठितं यत्र गोमहिष्यादयो बद्धा भवेयुस्तत् ३, मिश्रपरिगृहीतं त्रिभिरप्यधिष्ठितम् ४, तत्र देवपरिगृहीतवृक्षमूले स्थित्वा पश्यति तदा साधोः क्षिप्तचित्तयक्षाविष्टोन्मादप्राप्तत्वादयो दोषाः संभवेयुः १, मनुष्यपरिगृहीतवृक्षाधः स्थित्वाऽबलोकने तदधिष्ठातुः शङ्का स्यात्-“किमर्थमयमेवं पश्यति ? किं वृक्षस्य छेदादिकं करिष्यति ?" इत्यादि २, तिर्यपरिगृहीते तेषामाहारादावन्तरायः स्यात्, साधुदर्शनात् पशवः उद्विग्ना भूत्वा बन्धनं त्रोटयित्वा नश्यन्तीत्यादि ३, मिश्रपरिगृहीते पूर्वोक्ताः सर्वेऽपि दोषाः समापतेयुः ४ । एतद्वयतिरिक्तमपरिगृहीतम्, तत्राऽपि अनेके दोषा भवन्तीति स्वयमूहनीयम् । अतः साधुर्व क्षमूले स्थित्वा आलोकनप्रलोकनादिकं न कुर्यात् ।
अत्राह भाष्यकारःभाष्यम्- सचित्तरुक्खमूलंसि, ठिच्चा ठाणाइयं करे ।
पावइ भिक्खुओ सज्जो, आणाभंगाइयं तया ॥ छाया-सचित्तवृक्षमूले स्थित्वा स्थानादिकं कुर्यात् ।
प्राप्नोति भिक्षुकः सद्य आज्ञाभङ्गादिकं तदा॥ अवचूरिः—'सचित्तरुक्खमूलंसि' इत्यादि । सचित्तवृक्षमूले स्थित्वा यो भिक्षुः स्थानादिकं कायोत्सर्गशय्यादिकम् कुर्यात् , यदि सचित्तवृक्षमूले स्थित्वा यः कायोत्सर्गादिकं करोति
શ્રી નિશીથ સૂત્ર