________________
निशीथसूत्रे
नावापूराणां नावाकारकृतानामेकहस्ततलानां 'पसली' इति प्रसिद्धानां 'आयमइ' आचमति शौचं करोतीत्यर्थः, प्रथमं तु यदि एकेनैव नावापूरेण निर्लेप्तुं शक्यते तदा एकेनैव नावापूरेण निर्लेपयेत् न तु तदधिकेन, किन्तु कारणवशात्तदधिकेन द्वितीयेन तृतीयेन वा नावापूरेणापि निर्लेपयेत् । ततोऽधिकेन चतुर्थपञ्चमादिना नावापूरेण यद्याचमति । 'आयमंतं वा साइज्जइ' नावापुरत्रयात् अधिकेन नावापूरेण आचमन्तं शौचं कुर्वन्तं स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ।। सू० १४३ ॥
१३४
सूत्रम् — जे भिक्खू अपारिहारिए णं पारिहारियं वज्जा - एहि अज्जो ! तुमं च अहं च एगओ असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहेत्ता, तओ पच्छा पत्तेयं पत्तेयं भोक्खामो वा पाहामो वा, जो तं एवं वय, वयंतं वा साइज्जइ ॥ सू० १४४||
छाया - यो भिक्षुः अपारिहारिकः खलु पारिहारिकं वदेत् "एहि आर्य ! त्वं च अहं च एकतोऽशमं चा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्य ततः पश्चात् प्रत्येकं प्रत्येकं भोक्ष्यावो पास्यावा वा" यस्तमेवं वदति वदन्तं वा स्वदते ॥ सू० १४४||
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'अपारिहारिए णं' अपारिहारिकः खलु तत्र पारिहारिकः परिहारनामकप्रायश्चित्तरहितो विशुद्धः शुद्धाचारो वा साधुरित्यर्थः, 'पारिहारियं' पारिहारिकं - प्राप्तपरिहारनामकप्रायश्चितं मासिकादियावत् षाण्मासिकान्तं परिहारनामकप्रायश्चित्ततपो वहमानं पारिहारिकम् 'एज्जा' वदेत् कथयेत् किं वदेत् ? इत्याह-'एहि अज्जो' ! इत्यादि । 'एहि अज्जो' एहि आर्य ! हे आर्य एहि अत्रागच्छ 'तुमं च अहं च' त्वं चाहं च 'एगओ' एकत: - एकत्र मिलित्वा 'असणं वा' अशनम् वा 'पाणं वा' पानं वा 'खाइमं' खाद्यं वा 'साइमं वा' स्वाद्य' वा 'पडिग्गाहेत्ता' परिगृह्य एतेषामशनादीनां मिलित्वैव ग्रहणं कृत्वा 'तओ पच्छा' ततः पश्चात् ग्रहणादनन्तरम् 'पत्तेयं पत्तेयं' प्रत्येकं प्रत्येकं - भिन्नभिन्नस्थाने उपविश्य 'भोक्खामो वा पाहामो वा' भोक्ष्यावः आहारं करिष्यावः, पास्यावः - जलादिपान करिष्यावः, 'जो तं एवं वयई' यो भिक्षुरेवंप्रकारेण तं पारिहारिकं प्रति वदति - कथयति 'वयं वा साइज्जइ' वदन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १४४ ॥
संप्रति उद्देश कोपसंहारमाह - 'तं सेवमाणे' इन्यादि ।
सूत्रम् - तं सेवमाणे आवज्जइ मासियं परिहारद्वाणं उग्घाइयं ॥ १४५ ॥ || निसी हे चत्थो उद्देसो समत्तो ||४||
શ્રી નિશીથ સૂત્ર