________________
चूर्णिभाष्यावचूरिः उ० ४ सू० १४०-१४५ उच्चारप्रस्रवणपरिष्ठापनाधिकारः १३३ उच्चारप्रस्रवणं 'परिहवेत्ता' परिष्ठाप्य व्युत्सृज्य ‘णायमइ' नाचमति आचमनं न करोति-शौचं न करोतीत्यर्थः ‘णायमंतं वा साइज्जई' नाचमन्तं वा स्वदते मुत्रपुरीषोत्सर्जनानन्तरमचित्तजलेन प्रक्षालनं न करोति न कुर्वन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १४० ॥
सूत्रम्-जे भिक्खू उच्चारपासवणं परिठवेत्ता तत्थेव आयमइ, आयमंतं वा साइज्जइ ॥१४॥
छाया-यो भिक्षुरुच्चारप्रस्रवणं परिष्ठाप्य तत्रैवाचमति आचमन्तं वा स्वदते ।
चर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः 'उच्चारपासवणं' उच्चारप्रस्रवणम् 'परिहवेत्ता' परिष्टाप्य व्युत्सृज्य 'तत्थेव आयमइ' यत्रैव स्थण्डिलादौ परिष्ठापयति तत्रैव स्थंडिलादौ-आचमति शौचं करोति, तत्रैवाचमने उच्चारादिना हस्तस्य लेपसं. भवात् । तथा तत्रैव 'आयमंतं वा साइज्जई' आचमन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १४१॥
सूत्रम्-जे भिक्खू उच्चारपासवणं परिवेत्ता अइदूरे आयमइ आयमंतं वा साइज्जइ ॥१४२॥
छाया-यो भिक्षुरुच्चारप्रस्रवणं परिष्ठाण्यातिदूरे आचमति आचमन्त वा स्वदते ॥१४२॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'उच्चारपासवणं' उच्चारप्रस्रवणम् 'परिहवेत्ता' परिष्ठाप्य व्युत्सृज्य 'अइदूरे आयमई' अतिदूरे आचमति यत्र स्थण्डिलादौ परिष्ठापनं कृतं तस्मात् स्थण्डिलादतिदूरे हस्तशतप्रमाणे स्थाने गत्वा आचमति शौचं करोति तथा 'आयमंतं वा साइज्जई' पुरीषपरिष्ठापनस्थानादतिदूरं गत्वा आचमन्तं शौचादिकं कुर्वन्तं श्रमणं स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्तीति ॥ सू० १४२ ॥
सूत्रम्-जे भिक्खू उच्चारपासवणं परिवेत्ता परं तिण्हं नावापूराणं आयमइ आयमंतं वा साइज्जइ ॥१४३॥
छाया- यो भिक्षुरुच्चारप्रस्रवणं परिष्ठाप्य परं त्रयाणां नावापूराणामाचमति आचमन्तं वा स्वदते ॥ सू १४३॥
चूर्णी -'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः 'उच्चारपासवणं' उच्चारप्रस्रवणम् 'परिहवेता' परिष्ठाप्य व्युत्सृज्य 'परंतिण्हं' परमधिकं त्रयाणाम् 'नावापूराणं
શ્રી નિશીથ સૂત્ર