________________
चूर्णिभाष्यावचूरिः उ० ५ सू० १
सचित्तवृक्षमूले स्थानादिकरणनिषेधः १३५
छाया- तं सेवमान आपद्यते मासिकं परिहारस्थानमुद्धातिकम् ||सू० १४५॥ || निशीथाध्ययनस्य चतुर्थी देशकः समाप्तः ॥४॥
चूर्णी - 'तं सेवमाणे' इत्यादि । 'तं सेवमाणे' तत् सेवमानः चतुर्थोद्देशकस्य 'रायं अती करेइ' इतिप्रथमसूत्रादारभ्य 'जे भिक्खू अपारिहारि णं' एतत्सूत्रपर्यन्तं यत् - यत् प्रायश्चित्तस्थानं प्रदर्शितम् तेषु एकं किमपि अपराधपदं सेवमानः एकस्यापि स्थानस्य प्रतिसेवनां कुर्वन् 'आवज्जइ' आपद्यते प्राप्नोति 'मासिय' मासिकम् 'परिहारद्वाणं उग्घाइयं' परिहारस्थानमुद्घा - तिकम् - लघुमासिकं प्रायश्चित्तं प्राप्नोतीत्यर्थः ॥ १४५॥
इति श्री - विश्वविख्यात - जगद्वल्लभ - प्रसिद्ध वाचक - पञ्चदशभाषाकलित ललित कला पालापकप्रविशुद्धगद्यपद्यनैकप्रन्थनिर्मापक - वादिमानमर्दक श्री शाहू छत्रपति कोल्हापुरराजप्रदत्त" जैनशास्त्राचार्य " - पद भूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्म - दिवाकर - पूज्यश्री - घासीलालव्रति - विरचितायां " निशीथ सूत्रस्य” चूर्णि भाष्यावचूरिरूपायां व्याख्यायां चतुर्थोदेशकः समाप्तः ॥४॥
શ્રી નિશીથ સૂત્ર