________________
१२६
निशीथसूत्रे
ते श्रावका एवं वदेयुः – “किं तीर्थकरेण द्विप्रकारको धर्मः साधूनां कृते कथितः यदत्र सदोषमपि के गृह्णन्ति न पुनरेके” एवं गृहस्थैः कथितेऽपि यदि साधुः पार्श्वस्थादिसंघाटकस्याऽनुरोधान्मौनमालम्बते - अनुमतिं वा ददाति, तदा धर्मे महान् अविश्वासो भवेत् । तथा दीर्घसंसारकान्ताराsafर्भवेत् । अथ यदि साधुर्वदति- “न द्विविधो धर्मस्तोर्थकरेण कथितः " तदा पार्श्वस्थादेर्वचनं प्रतिहतं भवति ततश्च स एव कलहो द्वयोर्भविष्यति तेनाऽऽत्मविराधनायाः सम्भवः । तदानीता - Sशनादिस्वीकारे षोडश उद्गमादिदोषाः, उत्पादनादोषाश्चापि षोडश, दश - एषणादोषाः, एवं द्विचत्वारिंशदाहारदोषा भविष्यन्तीति पार्श्वस्थादिभिः सह संघाटकस्यादानं प्रदानं वा न कर्त्तव्यमिति ॥ सू० ३९॥
सूत्रम् — जे भिक्खू उदउल्लेण हत्थेण वा मत्तेण वा दव्वीए वा भायणेण वा, असणं वा ४ डिग्गाहेइ, पडिग्गार्हतं वा साइज्जइ ॥ सू०४० ॥
छाया - यो भिक्षुः उदकार्द्रेण हस्तेन वा मात्रेण वा दर्या वा भाजनेन वा अशनं वा ४ प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते ॥ सू० ४०||
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'उदउल्लेण' उदकाद्वैण सचित्तजलार्द्रेण ‘हत्थेण' हस्तेन उदकलेपाद् यावद् आईः करस्तावद् तादृशेनैव करेण 'मत्तेण वा' मात्रेणमृत्तिकादिनिर्मित लघुपात्रेण वा 'दब्बीए वा' दर्ग्या- 'कडछो' इति भाषाप्रसिद्धया वा 'भायणेण वा' भाजनेन - कांस्यादिपात्रेण वा । हस्तवत् - अमत्र - दर्वी - भाजनेषु विशेष्येषु सचित्तोदकाईपदं प्रत्येकमभिसंबद्ध्यते । तादृशेभ्यो हस्तादिभ्य 'असणं वा ४' अशनादिचतुर्विधमाहारम् 'पडिग्गा हे' प्रतिगृह्णाति आदते, 'पडिग्गाहतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति, तस्याज्ञाभङ्गादयो दोषाश्च भवन्ति ॥ सू० ४० ॥
सूत्रम् - - एवं ससणिद्धेण० २ ॥ सू० ४१ ॥ ससरक्खेण०३ || सू०४२|| ||मट्टियासंसट्टेण०४ ॥ सू०४३ || ओसा० ५ || सू०४४॥ लोण० ६ || सू०४५ || हरियाल० ७ || सू०४६ ॥ मणोसिला ० ८ ॥ सू०४७ ॥ वणिय ० ९ || सू०४८ ॥ गेरुय० १० ॥ सू०४९ ॥ सेठिय० ११ ॥ सु०५० ॥ हिंगुल ० १२ ॥ सू०५१ || अंजण० १३ || सू०५२ | लोद्ध० १४ ॥ सू ५३ ॥ कुक्कुस ० १५ || सू०५४ || पिठ्ठ० १६ || सू० ५५ || कंद०१७ || सू०५६ ॥ मूल० १८ || सू०५७|| सिंगबेर० १९ || सू० ५८ || पुप्फग० २० ॥ ०५९ ॥ कुट्ठगसंसठ्ठेण वा २१, एगवी सभेएण हत्थेण वा मत्तेण वा दव्वीए वा भायणेण वा असणं वा ४ पडिग्गाहेइ पडिग्गार्हतं वा साइज्जइ ॥ सू०६०॥
શ્રી નિશીથ સૂત્ર