________________
चूर्णिभाष्यावचूरिः उ०४ सू०३१-६० उदकादिसंसृष्टहस्तादिनाऽशनादिग्रहण नि० १२५
सूत्रम्-जे भिक्खू पासत्थस्स संघाडयं पडिच्छइ पडिच्छंत वा साइज्जइ ॥ सू० ३१॥
छाया-योभिक्षुः पाश्वस्थस्य संघाटकं प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥सू०३१॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'पासत्थस्स' पार्श्वस्थस्य 'संघाडयं' संघाटक--शिष्यसाहाय्यम् 'पडिच्छई' प्रतीच्छति--स्वीकरोति-.गृह्णातीत्यर्थः, 'पडिच्छंतं वा साइज्जइ' प्रतीच्छन्तं वा स्वदते । यः पार्श्वस्थस्य शिष्यादिपरिवारं स्वसाहाय्यतया वाञ्छति तं योऽनुमोदते स प्रायश्चित्तभागी भवति, तस्याज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनात्मविराधनादयो दोषा भवन्ति, अतः पार्श्वस्थसंघाटकस्य साहाय्यं न गृह्णीयात् ॥ सू० ३१॥ एवम् - 'ओसन्नस्स संघाडयं देइ पडिच्छई' ॥३२॥३३॥ एवं 'कुसीलस्स' इति सूत्रद्वयम् ॥३४॥३५॥ "णितियस्स' इति सूत्रद्वयम् ॥३६॥३७॥ 'संसत्तस्स' इति सूत्रद्वयम् ॥३८-३९॥ चेति सूत्राष्टक पार्श्वस्थसूत्रद्वयवद् व्याख्येयम् ॥ सू० ३८-३९॥
अत्राह भाष्यकारःभाष्यम्-पासत्थाईण संघाडं, देइ तेर्सि पडिच्छइ ।
आणाभंगाइए दोसे, पावई सो जई सया ।। छाया-पार्श्वस्थादिभ्यः संघाडं, ददाति तेषां प्रतीच्छति ।
आज्ञाभङ्गादिकान् दोषान् प्राप्नोति स यतिः सदा || अवचरिः-पासत्थाईण' इत्यादि । यदि भिक्षुः पार्श्वस्थादिभ्यः संघाटं ददाति तदा. ऽऽज्ञाभङ्गानवस्थामिथ्यात्वसंयमात्मविराधनायो दोषा भवन्ति । तत्र संयमात्मविराधना यथापार्श्वस्थादिभ्यः प्रदत्तः संधाटको यदि प्रतिलेखन-प्रमार्जनादिकां साधुक्रियां सम्यक्तया करोति तदा स्वापमानं विज्ञायेत प्रतिषेधिष्यति च । ततस्तद्वचनं स यदि स्वीकरोति, तदाऽऽचारे शैथिल्यं प्रतिपद्यते तेन संयमविराधना जायते ।
यदि न स्वीकरोति तदा-कलहो युद्धं वा संभवति, तेनाऽऽत्मविराधना समापयेत । एव. मशनादिग्रहणेऽग्रहणे च पूर्वोक्ता दोषाः समापवेरन् , अतः पार्श्वस्थादिभ्यः संघाटको न दातव्यः ।
एवं-यदि पार्श्वस्थादीनां संधार्ट प्रतीच्छति तदाऽपि पूर्वोक्ता एव दोषा भवन्ति ।
तथाहि-यदि श्रमणः पार्श्वस्थादिसंघाटकं स्वीकृत्य तेन सह विहरति तदा विहारसमये स उद्गमादिदोषदूषितं भक्तपानादिकं गृह्णाति । तस्य चोपभोगः श्रमणस्यापि अवश्यमेव भवेत संघाटाऽऽनीतत्वात् ।
अथ यदि कुत्रचित् साधुना प्रतिषिद्धे पार्श्वस्थादिसंघाटकेन गृहीते सदोषान्नपानादिके साधुर्मीनमालम्बते तदाऽऽज्ञाभङ्गदोषः स्यात् । तथा- दातॄणां गृहिणामविश्वासोऽपि स्यात् । तथा
શ્રી નિશીથ સૂત્ર