________________
१२४
निशीथसूत्रे यस्मादेते दोषाः कलहकारिणां भवन्ति तस्मात् कारणात् व्यपशमितं पुरातनं कलहं नोत्पादयेत् । कदाचित्-उत्पन्नमपि मिथ्यादुष्कृतिदानादिना प्रशमयेत् , संयमाराधने कालं नयेत् ।।सू०२८॥
सूत्रम्--जे भिक्खू मुहं विष्फालिय विष्फालिय हसइ हसंतं वा साइज्जइ ॥ सू० २९॥
छाया-यो भिक्षुर्मुखं विस्फार्य विस्फार्य हसति हसन्तं वा स्वदते ॥ सू०२९॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'मुहं' मुखम् ‘विप्फालियविप्फालिय' विस्फार्य-विस्फार्य 'हसई' हसति, हास्यं च नोमोहनीयकर्मोदयाद्भवति । तच्चतुर्विधम्-नग्नादिकं दृष्ट्वा हसति १, अथवा-विकृतं वाक्यं समुच्चार्य२, काक-सरटादीनामाख्यानक श्रुत्वा ३, मोहजनकं वाऽन्यस्य हासोत्पादकं सविकारं वाक्यं श्रावं- श्रावं महता-उत्कलिकाशब्देन कहकहं हसति ४ । 'हसंत वा साइज्जई' हसन्तं वाऽन्यं श्रमणं स्वदतेऽनुमोदते स प्रायश्चित्ती भवति, तस्याज्ञाभङ्गादिका दोषा भवन्ति ।
एवं-यो यतिहसति तस्य पूर्वकाले यः शूलादिको रोगोऽभूत् स इदानीं च शान्तः, परन्तुअतिहसनेन पुनरपि स रोगः प्रादुर्भवति । एवं-नवीनोऽपि शूलादिरोगोऽतिहास्येन समुत्पद्यते । एवं कर्णरोगोऽपि भवति, मुखमपि विकृतं विष्फारितं वा भवति । एवं-कदाचित् एकत्राऽनेके तापसा आसन् , तत्रैकेन तापसेनाऽदेशकाले केशादीनां मुण्डनं कृतम् , तद्-दृष्ट्वा सर्वेऽप्यन्ये हसितुमारेभिरे, न विरामं नीतवन्तः, तेन च तेषां रोगोदयान्मरणं सजातमिति श्रूयते । एवं-यं हसति तस्य मनसि शोको भवति 'अहमुपहसितः' ततश्च तेषु शत्रुभावो वर्द्धते, शरीरे हानिग्लानिश्च भवति । यस्मा. देते दोषा भवन्ति तस्मात्कारणात् मुखं ज्यादाय नोपहासः करणीयः किन्तु-शमभावेन संयमाराधनं कर्त्तव्यमिति ॥ सू० २९॥
सूत्रम्-जे भिक्खू पासत्थस्स संघाडयं देइ देंतं वा साइज्जइ। सू०३०॥
छाया-यो भिक्षुः पार्श्वस्थाय संघाटकं ददाति ददतं वा स्वदते ॥ सू० ३०॥ ___ चूर्णी—'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः ‘पासत्थस्स' पार्श्वस्थाय, तत्रयो ज्ञान-दर्शन-चारित्र--तपसां पार्श्वे-समीपे तिष्ठति न तु-तेषामाराधको भवति स पार्श्वस्थः, तस्मै 'संघाडयं' संधाटकं-स्वपरशिष्यरूपै साहाय्यम् 'देई' ददाति, तथा 'देंतं वा साइ-- ज्जई' पार्श्वस्थाय संघाटकं ददतमन्यं मश्रमणं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याऽऽज्ञाभङ्गादयो दोषा भवन्ति ॥ सू० ३०॥
શ્રી નિશીથ સૂત્ર