________________
चूर्णिभाष्यावचूरिः उ० ४ सू० २९-३० हसनपार्श्वस्थादिसंघाटकादानप्रदाननिषेधः १२३
अत्र सूत्रे - भावाधिकरणेन प्रथमभङ्गेनाऽधिकारः, तत्र चैते दोषाः - तापो भवति-अहं तेनाऽतीव तप्ये, एवं भवति तापः साधिकरणस्य । एवं भेदः - अयशो भवति साधिकरणस्य । तथा-ज्ञानदर्शन - चारित्र - तपसां ह्रासो भवति । तथा-साधिकरणस्य पुरुषस्य संसारोऽपि वर्द्धते, इत्यादयोsah दोषा भवन्ति । तस्मात् कारणात् श्रमणैः श्रमणीभिर्वाऽधिकरणं नोत्पादनीयम्, किन्तु – समभावमास्थाय चारित्राराधनं कर्त्तव्यमिति तीर्थकराणामाज्ञा शास्त्राणां मर्यादा चेति ॥ सू० २७॥
सूत्रम् - जे भिक्खू पोराणाईं अहिगरणाई खामिय-विओसमियाई पुणो उदीरेइ उदीरें वा साइज्जइ ॥ सू० २८|
छाया -यो भिक्षुः पौराणानि अधिकरणानि क्षामितव्युपशमितानि पुनः उदीरयति उदीरयन्त वा स्वदते ॥ २८ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'पोराणाई' पौराणानिं पूर्वकालिकानि - पूर्वकालभवानि व्यतीतानीत्यर्थः ' अहिगरणाई' अधिकरणानि - कलहान् । 'खामियविओसमियाई' क्षामितव्युपशमितानि, क्षामितानि वन्दनादिना, अतो व्युपशमितानि शान्तीकृत यदि 'पुणो उदीरेइ' पुनरुदीरयति उत्पादयति, तथा 'उदीरंतं वा साइज्जइ' उदीरयन्तं समुत्पादयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति, तस्याऽऽज्ञाभङ्गादयो दोषा भवन्ति ॥ सू० २८ ॥
अत्राह भाष्यकारः—
भाष्यम् – अहिगरणं पुन्बर्ग, उप्पाएइ जई जइ । आणाभंगाइए दोसे, पायच्छित्तं च पावइ ॥
छाया - अधिकरणं पूर्वगमुत्पादयति यतिर्यदि । आज्ञाभङ्गादिकान् दोषान् प्रायश्चित्तं च प्राप्नोति ॥
अवचूरिः – 'अहिगरणं' इत्यादि । यः कश्चिद्भिक्षुः पूर्वगं - - पूर्वं गतं क्षान्तं -विशोधितम्मिथ्यादुष्कृतादिनोपशमितमधिकरणं क्लेशरूपं पुनरुत्पादयति । यत्र यदा कदाचित् द्वयोः श्रमणयोः कलहो जातस्ततस्तं मिथ्या दुष्कृतदानादिना शान्तीभूतमपि पुनरेकः कथयति - "त्वं पूर्व ममापमानं कृतवानसि " एवंप्रकारेण परस्परं वार्त्तालापप्रवाहे पूर्वजातमपि विस्मृतं नवीनं करोति स आज्ञाभङ्गादीन् दोषान् प्रायश्चित्तं च प्राप्नोति । एवं कलहकरणेन मनसि तापो भवति लोकेऽयशो भवति । एवं-- -- ज्ञान - दर्शन -- चारित्र - तपसां परिहानिर्भवति, स्वाध्यायादिकालस्य कलहेनैव परिसमाप्तेः । तथा साधुभिः सह प्रद्वेषोऽपि जायते । एवं कलहकरणात् संसारोऽपि, परिवर्द्धते, कलहेऽवश्यं कषायोदयात्, कषायाणां च संसारकारणत्वात् ।
શ્રી નિશીથ સૂત્ર