________________
૨૨૨
निशीथसूत्रे "आचार्यों दुग्धमेव मह्यं दास्यति, न दुग्धविकृतिम्" इति हेतोस्तावुभावपि पदार्थों सम्मेलयतीत्यादि । उपाधौ--अकारणेऽविधिना वस्त्रादिकं सीव्यते १, अकारणे-विधिना सोव्यते २, कारणेऽविधिना सीव्यते ३, एते त्रयोऽपि भङ्गा अधिकरणम् । 'कारणे विधिना सीव्यते' इति चतुर्थो भङ्गस्तु शुद्धः, अनधिकरणत्वात् । तदेतत्संयोजनाधिकरणम् ।
अथ निसर्जनाधिकरण प्रदर्श्यते--तद्-द्विविधम् -लौकिक-लोकोत्तरिकं च २, तत्र-लौकिक यथाकृतं निसृजति, यथा कस्मैचिद्वस्त्रभूषणादीनां क्रोधादिवशात्प्रदानम् , इत्यादिकम् । लोकोत्तरिकं निसर्जनं.त्रिविधम्-सहसा १, प्रमादेन २, अनाभोगेन च ३ ।
तत्र-पूर्वादिष्टेन योगेन किञ्चित्सहसा निसृजेत् । पञ्चविधप्रमादाऽन्यतरेण प्रमत्तो निसृजेत् । एकतो विस्मृत्याऽनाभोगेन निसृजेत् , तदेतन्निसर्जनाऽधिकरणम् । इति द्रव्याधिकरणम् ।
इदानीं-भावाधिकरणं प्रदर्शयामि-तद्यथा-संरम्भे १, समारम्भे २, आरम्भ च ३ । उक्तञ्च संकप्पो संरंभो, परितावकरो भवे समारंभो ।
__आरंभो उद्दवओ, सवनयाणं विसुद्धाण ॥ प्राणातिपातादेः सङ्कल्पः-संरम्भः१, परितापकरणं-समारम्भः २, उपद्रवणं-हननम्-आरम्भः ३ विशुद्धानां सर्वनयानां मतमेतत् । एतेषामधो मनोवचनदेहाः स्थापनीयाः, तदधः करण-कारणाऽनुमोदनानि, एतानि त्रीणि स्थापयितव्यानि । एतेषामप्यधः क्रोधमानमायालोभाः, एते चत्वारः स्थापयितव्याः । तत्राऽऽलापप्रकार इत्थम्-क्रोधसम्प्रयुक्तो मनसा संरंभं करोति १, मानसम्प्रयुक्तो मनसा संरम्भं करोति २, मायासम्प्रयुक्तो मनसा संरम्भं करोति ३, लोभसम्प्रयुक्तो मनसा संरम्भं करोति ४, एते चत्वार आलापकाः करणे ।।
एवमन्यद्वारा कार्यमाणेऽपि चत्वार आलापकाः । तथा-क्रोधसम्प्रयुक्तो मनसा संरंभ कारयति १, मानसम्प्रयुक्तो मनसा संरम्भं कारयति २, मायासम्प्रयुक्तो मनसा संरंम्भ कारयति ३, लोभसंप्रयुक्तो मनसा संरम्भं कारयति ४ ।।
___ एवं क्रोधसम्प्रयुक्तो मनसा संरम्भमनुमोदते १, मानसंप्रयुक्तो मनसा संरम्भमनुमोदते २, मायासम्प्रयुक्तो मनसा संरम्भमनुमोदते ३, लोभसम्प्रयुक्तो मनसा संरभ्भमनुमोदते ४,
एवं द्वादश वियल्पा मनसा लब्धाः । एवमेव-द्वादश वचनेन । तथैव द्वादश कायेन । तदेवं संरम्भस्य षट्त्रिंशद्भङ्गाः । एवं-समारम्भस्याऽपि षट्त्रिंशद्भङ्गाः । एवमारम्भस्याऽपि पत्रिंशद्भङ्गाः । सर्वसङ्कलनयाऽष्टोत्तरशतं भङ्गानां भवति ।
___ एतेषां द्रव्य-भावाधिकरणानामन्यतरेणाऽपि--अधिकरणं यो भिक्षुरुत्पादयति स प्रायश्चित्तभागी भवति, तथा तस्याऽऽज्ञाभङ्गादिका दोषा भवन्ति ।
શ્રી નિશીથ સૂત્ર