________________
चूर्णिभाष्यावचूरिः उ. ४ सू०-२७
अनुत्पन्नाधिकरणोत्पादननिषेधः ११९ रोगादिकारणेष्वागच्छन्ति तस्मिन् मार्गे साध्वीनां गमनागमनमार्गे 'दंडगं वा' दण्डकं वा, तत्र दण्डो नाम-यं हस्ते निधाय वृद्धत्व-रोगादिकारणे साधुर्गच्छति स तम् 'लट्टियं वा' यष्टिकां वा, यष्टिका लघुर्यः प्रतलो दण्डश्चलनसहायभूतः, साऽपि कारणवशादेव गृह्यते, तां वा 'रयहरणं वा' रजोहरणम् 'मुहपत्तियं वा' सदोरकमुखवस्त्रिकाम् , प्रक्षालिता या शुष्ककरणार्थ स्थाप्यते 'अण्णयरं वा उवगरणजायं'अन्यतरद् वा उपकरणजातम् प्रमाजिकादि, अन्यतरपदग्रहणात्-औधिकमौषप्रहिकं चेति द्विविधमप्युपकरणजातं गृह्यते । तत्र-औधिकं सामान्यं वस्त्रपात्रादिकम् , औपग्रहिकं-रोगादिकारणेऽल्पकालार्थ यद् गृह्यमाणं शय्यासंस्तारकपीठफलकादिकमुपकरणजातं, तत् 'ठवेइ' स्थापयति, 'ठवेंतं वा साइज्जई' स्थापयन्तं वा स्वदते। यो भिक्षुः पाक्षिकक्षमापनारोगादिकारणेन साधूनामुपाश्रये समागच्छन्तीनां साध्वीनां मार्गे पूर्वोक्तोपकरणादिकं स्थापयति स प्रायश्चित्तभाग् भवति ।। सू० २६॥
ननु साधोः रजोहरणादिकं सर्वदैव साधं ग्राह्यत्वेन सूत्रे कथितं ततश्च तस्य मार्गे स्थापनसंभावना कुतः, यस्य सम्भावनैव नास्ति तस्य निषेधः सुतरां निरर्थकः ? इत्याशङ्कयाह भाष्यकारःभाष्यम्-चिट्ठतो पडिलेहंतो, कुणंतो वावि लुचणं ।
मिसेणं वाऽह वत्थूणं, णिक्खेवस्स हि संभवो॥ छाया-तिष्ठन् प्रतिलिखन् कुर्वन् वाऽपि लुञ्चनम् ।
मिषेण वाऽथ वस्तूनां निक्षेपस्य हि सम्भवः ।। अवचूरिः-'चिठंतो' इत्यादि । मार्गे तिष्ठन् वा साधुः कदाचित् रजोहरणं निक्षिपेत् , भक्तपानादिकं प्रतिलिखन् वा, अथवा-लुञ्चनमप्यात्मनः शिरसः कुर्वन् मार्गे रजोहरणादिकं निक्षिपेत् । अथवा-मिषेण-केनचिद् व्याजेन उपहासाद्यर्थ वा वस्तूनां रजोहरणाधुपकरणानां निक्षेपस्य सम्भवः । संम्भाव्यते-एभिः कारणैर्मार्गे रजोहरणार्दीनां निक्षेपः । इत्थं मार्गे निक्षिपतः साधोः, रजोहरणादिकं निक्षिपन्तं वा अनुमोदमानस्य साधोः प्रायश्चित्तमाज्ञाभङ्गादया दोषाश्च भवन्ति ॥ सू०२६॥
सूत्रम्-जे भिक्खू णवाइं अणुप्पण्णाई अहिगरणाइं उप्पाएइ उप्पाएंतं वा साइज्जइ ॥ सू० २७॥ छाया-यो भिक्षुः नवानि-अनुत्पन्नानि अधिकरणानि-उत्पादयति, उत्पादयन्तं
वा स्वदते ॥ सू० २७॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः, ‘णवाई' नबानि-नवीनामि-अप्र्वाणि 'अणुप्पण्णाई अनुत्पन्नानि-तत्कालेऽविद्यमानानि 'अहिगरणाई' अधिकरणानि-कलहान् ,
શ્રી નિશીથ સૂત્ર