SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ११८ निशीथसूत्रे अत्राह भाष्यकार:भाष्यम् -अकारणे जो विहिणा, कारणेऽविहिणा विसे । अकारणे अविहिणा, कारणे विहिणा जई ॥ एत्थ भंगतिगे दोसो, एसो सत्थविणिच्छओ। कारणे विहिणा एयं, चउत्थं भंगमायरे ॥ छाया-अकारणे यो विधिना कारणेऽविधिना विशेत् । अकारणेऽविधिना कारणे विधिना यतिः ॥ अत्र भंगत्रिके दोष एष शास्त्रविनिश्चयः । कारणे विधिनैतं चतुर्थ भङ्गमाचरेत् ॥ अवचूरिः- 'अकारणे' इत्यादि । सूत्रेऽविधिना श्रमण्या उपाश्रये प्रवेशो वारितः। तत्र प्रवेशे चत्वारो भङ्गा भवन्ति तथाहि-अकारणे-विधिना, इति प्रथमः १, कारणे-ऽविधिना, इति द्वितीयः २, अकारणे-ऽविधिना, इति तृतीयः ३, कारणे-विधिना, इति चतुर्थः ४ । अत्र यदि भङ्गत्रयमाश्रित्य प्रतिशेत् तदा दोषः प्रायश्चित्तमिति शास्त्रविनिश्चयः शास्त्रनिर्णयः, तस्मात्कारणात् , 'कारणे विधिना' एतं चतुर्थ भङ्गमाचरेद्भिक्षुः । उपाश्रये स्थानत्रयं भवति, तच्चेत्थम्-अग्रभागद्वारमेकम् १, उपाश्रयमध्यं द्वितीयम् २, श्रमण्या आसन्नस्थानं तृतीयम् ३ । एतेषु त्रिवषि स्थानेषु नैषेधिकीं 'निसीहि-निसीहि' इत्युच्चारणं विना श्रमण्या उपाश्रये प्रविशतः श्रमणस्य प्रायश्चित्तम् । अथ यदि-श्रमणीवसतेर्मूलद्वारसमीपे बहिस्तिष्ठेत् तदापि प्रायश्चित्तम्, यद्यन्तमध्यं वा प्रविशति तदापि प्रायश्चित्तमापद्यते, इति श्रुत्वा शिष्यः पृच्छति हे गुरो ! यदि श्रमणः श्रमण्या उपाश्रयं गच्छति तदा तु तत्र न भवति किञ्चित्प्राणातिपातादिकम् , तथाप्यधुना केन कारणेन प्रायश्चित्तं कथ्यते ? कस्मात् कारणात् मूलद्वारस्य बहिर्भागेऽपि तिष्ठतः प्रायश्चित्तम् ? केन वा कारणेन द्वारस्य मध्यं गच्छतोऽन्तर्गच्छतश्च प्रायश्चित्तम् ! इति प्रश्नः । आचार्य उत्तरं प्राह-तत्र विह्वलादयो बहवो दोषाः, तथाहि-'सुखासीना कदाचित्स्यात् -प्रावृताऽवृता यदि वा, नैषेधिकी विना यान्तं दृष्ट्वा सा विह्वला भवेत् । एवमन्येऽपि दोषा भवेयुरिति ॥ सू० २५॥ सत्रम-जे भिक्खू णिग्गंथीणां आगमणपहंसि दंडगं वा लठियं वा स्यहरणं वा मुहपत्तियं वा अण्णयरं वा उवगरणजायं ठवेइ ठवेंतं वा साइज्जइ ॥ सू० २६॥ छाया-यो भिक्षुः निर्ग्रन्थीनामागमनपथे दण्डकं वा यष्टिकां वा रजोहरणं वा मुखवस्त्रिका वा अन्यतरद् वा उपकरणजातं स्थापयति स्थापयन्त वा स्वदते ॥सू० २६।। चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः ‘णिग्गंधीणं' निर्ग्रन्थीनाम्साध्वीनाम् आगमणपहंसि' आगमनपथे, येन पथा श्रमण्यः साधोरुपाश्रयं पाक्षिकक्षमापना શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy