________________
चूर्णिभाष्यावचूरिः उ.४ सू०२४-२६ स्थापनाकुलाहार-निर्ग्रन्थ्युपाश्रयाऽविधिगमनादिनि० ११७ अज्ञात्वा 'अपुच्छिय' अपृष्ट्वा, तत्र-पृच्छा तु नाम्ना गोत्रेण च । 'अगवेसिय' अगवेषयित्वा--अन्वेषणमकृत्वा, तत्र गवेषण- वृक्षरतूपादिचिह्नः परिज्ञानम् ‘पुवामेव' पूर्वमेव गवेषणकरणादितः प्रागेव, 'पिंडवायपडियाए' पिण्डपातप्रतिज्ञया-आहारग्रहणेच्छया 'अणुप्पविसई' अनुप्रविशति स्थापनाकुलेषु प्रविशति । 'अणुप्पविसंतं वा साइज्जइ' अनुप्रविशन्तं वा स्वदते स प्रायश्चित्तभाग् भवतीति ॥ सू० २४॥
अत्राह भाष्यकार:भाष्यम्-लोगुत्तरं लोगिगं च, दुविहं कुलमुच्चइ ।
लोगिगं दुविहं तत्थ, साहारणं दुगुंछियं ॥१॥ तत्थ लोगुत्तरं गच्छे, गच्छे य अदुगुंछियं ।
तत्थावि ठवणादोसं, मुणी जाणिय नो वए ॥२॥ छाया-लोकोत्तरं लौकिकं च-द्विविधं कुलमुच्यते ।
लौकिकं द्विविधं तत्र-साधारण जुगुप्सितम् ॥१॥ तत्र लोकोत्तरं गच्छेद् गच्छेच्चाऽजुगुप्सितम् ।
तत्रापि स्थापनादोषं मुनित्विा नो बजेत् ॥२॥ अवचूरिः–'लोगुत्तरं' इत्यादि । यत् खल सूत्रे कुलं कथितं तत्कुलं द्विविधं द्विकारकमुच्यते-लौकिकं लोकोत्तरंच, तत्र लौकिकं द्विविधं साधारणं जुगुप्सितं च । तत्र-साधारणं ब्राह्मणादिकुलम् , जुगुप्सितं चाण्डालादिकुलम् लोकनिन्दितं च । लोकोत्तरं श्रावक-सम्यष्टष्टिकुलम् , तत्र मुनिर्गच्छेत् भिक्षालामाय । तथा-लौकिकमप्यजुगुप्सितं कुलं गच्छेत् । भिक्षार्थ यद्यत्कुल प्रशस्तं तत्रापि यत्कुल स्थापनादोषदुष्टं भवति, तज्ज्ञात्वा तत्र नो व्रजेत् ॥२४॥
सूत्रम्--जे भिक्खू णिग्गंथीणं उवस्सयंसि अविहीए अणुप्पविसइ अणुप्पविसंतं वा साइज्जइ ॥ सू० २५॥
छाया-यो भिक्षुनिर्ग्रन्थीनामुपाश्रये अविधिनाऽनुप्रविशति अनुप्रविशन्तं वा स्वदते ॥ सू० २५॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः ‘णिग्गंथीणं' निर्ग्रन्थीना-साध्वीनाम् 'उवस्सयंसि' उपाश्रये-वसतौ तदावासस्थाने 'अविहीए' अविधिना-मर्यादामतिक्रम्य 'अणुप्पविसइ' अनुप्रविशति-सहसा याति, अनुप्रतिशन्तं वाऽन्यं स्वदतेऽनुमोदते स प्रायश्चित्तभार भवति ।। सू० २५॥
શ્રી નિશીથ સૂત્ર