________________
११६
छाया - आचार्याद्यदत्तमशनादि चतुर्विधम् ।
वस्त्र - कम्बल - पात्रादि कदापि नैव गृहीयात् ॥
अवचूरिः – 'आयरियाइ' इत्यादि । अशनादिकं चतुर्विधमाहारम्, तथा - वस्त्रकम्बलपात्रादि, आदिशब्दादोषध - भैषज्यादिकं च सर्ववस्तुजातम्, आचार्योपाध्यायादिनाऽदत्तं मुनिः कदापि काले नैव गृह्णीयात् । यदि गृह्णीयात्तदा प्रायश्चित्तभाग् भवेत् ॥ सू० २२ ॥
सूत्रम् - जे भिक्खू आयरियउवज्झाएहिं अविदिण्णं विगई आहारेड आहारतं वा साइज्जइ ॥ सू० २३ ॥
छाया - यो भिक्षुः आचार्योपाध्यायैः अविदत्तां विकृतिम् आहरति अहरन्तं वा स्वदते ॥ सू० २३ ॥
निशीथसूत्रे
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'आयरियउवज्झाएर्हि' आचायोपाध्यायैः उपलक्षणाद्रत्नाधिकैर्वा, 'अविदिष्णं' अविदत्तामननुज्ञाताम् 'विगई' विकृति-दधि - दुग्धादिरूपाम् 'आहारेइ' आहरति- भुङ्क्ते 'आहारेंतं वा साइज्जइ' आहरन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति, तस्याज्ञाभङ्गादयो दोषा भवन्ति ।। सू० २३ ।।
अत्राह भाष्यकारः
भाष्यम् – विगई य घयं, तेल्लं, दहिदुद्धगुडाइयं ।
भुंजे अविदिण्णं जो, पायच्छित्तं स पावई ॥
छाया - विकृतिश्व घृतं तैलं, दधि- दुग्ध- गुडादिकम् । भुङ्क्तेऽविदत्ते यः प्रायश्वित्तं स प्राप्नोति ॥
9
अवचूरिः - 'विगई' इत्यादि । सूत्रे विकृतिश्च घृतं तैलं, दधिदुग्धगुडादिकं प्रोच्यते । आदिपदान्मधुरादि, तद्विकृतिपदानीतं सर्वमपि - आचार्योपाध्यायरत्नाधिकाद्यैरविदत्तं सत् यो यतिर्भुङ्क्ते स प्रायश्चित्तं प्राप्नोति ॥ सू० २३ ॥
सूत्रम् — जे भिक्खू ठेवणकुलाई अजाणिय, अपुच्छिय, अगवेसिय पुव्वामेव पिंडवायपडियाए अणुप्पविसइ अणुप्पविसंतं वा साइज्जइ ॥ सू० २४ ॥
छाया - यो भिक्षुः स्थापनाकुलानि अज्ञात्वा अपृष्ट्वा, अगवेषयित्वा पूर्वमेव पिण्ड - पातप्रतिज्ञया अनुप्रविशति, अनुप्रविशन्तं वा स्वदते || सू० २४ ॥
શ્રી નિશીથ સૂત્ર
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'ठवणकुलाई' स्थापनाकुलानि, तत्र स्थापनाकुलम् यत्र साध्वादिनिमित्तमन्नपानादिकं स्थाप्यते तत् स्थापनाकुलम् 'अजाणिय'