SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ०.४ सू०२१-२३ कृत्स्नौषधेराचार्याद्यदत्तस्य चाहारस्य निषेधः ११५ अवचूरिः–'अत्तीकरेइ' इत्यादि । यो हि भिक्षुः-'निवाइ' नृपादि अर्थात्-राजानम् , राजारक्षकम् , नगरारक्षकम् , निगमारक्षकम् , सर्वारक्षकं वा, यं कमप्येकमात्मीकरोति, च पुनःअर्चीकरोति, यदि वा-अच्छीकरोति, अथ कदाचित् अर्थीकरोति । अत्राऽऽत्मीयकरणादौ सर्वत्रापि द्विधात उभयथापि- अनुकूल-प्रतिकूलादिनोपसर्गदोषाः संभवेयुः, यथाऽङ्गारः शीतो वा उष्णो वा(ठण्ढा-कोलसा) (जलता-कोलसा) करस्पृष्टः सन् शीतोष्णाभ्यां गुणदोषाभ्यामुपसर्गकर एव भवति, यदा शीतस्तदा करं कृष्णायते यदोष्णो जाज्वल्यमानस्तदा करं दहति । एवमेव--राजा दयोऽपि कुर्युः, तस्मात् -यतिमध्यस्थभावे वर्तमानो नैतेषामुपकारमपकारं वा कुर्यात् । इति सूत्रे--विंशतिसूत्रसमुदाये गणधरादयो वदन्ति ।। सू० २०॥ सूत्रम्--जे भिक्खू कसिणाओ ओसहीओ आहारेइ आहारेत वा साइज्जइ ॥ सू० २१॥ छाया-यो भिक्षुः कृत्स्ना ओषधीराहरति-आहरन्त वा स्वदते ॥सू० ॥२१॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'कसिणाओ ओसहीओ' कृत्स्राः सम्पूर्णा अखण्डिताः द्रव्यतो भावतश्च ओषधयः शालिगोधूमादयः, तत्र--द्रव्यतोऽखण्डिताः स्वरूपेणाऽवस्थिताः, भावतः सचित्ताः, ताः 'आहारेइ' आहरति, 'आहारेंतं वा साइज्जई' आहरन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति । अत्र कृत्स्नौषधीनां द्रव्यभावभेदेन चत्वारो भङ्गा भवन्ति, तथाहि-द्रव्यतोऽखण्डिताः भावतः खण्डिताः इति प्रथमो भङ्गः १, द्रव्यतः खण्डिता भावतोऽखण्डिताः, इति द्वितीयो भङ्गः २, द्रव्यतोऽखण्डिता भावतोऽखण्डिताः, इति तृतीयो भङ्गः ३, द्रव्यतः खण्डिताः, भावतश्च खण्डिताः, इति चतुर्थो भङ्गः ४ । तत्र--प्रथमचतुर्थो भङ्गो शुद्धौ ।। सू०२१।। सूत्रम्-जे भिक्खू आयरियउवज्झाएहिं अदत्तं आहारेइ आहारतं साइज्जइ ॥ सू० २२॥ छाया-यो भिक्षुराचार्योपाध्यायैरदत्तमाहरति आहरन्तं वा स्वदते ॥ सू० २२ ॥ चूर्णी—'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'आयरियउवज्झाएहिं' आचायोपाध्यायैः-उपलक्षणाद्रत्नाधिकैर्वा 'अदत्तं' अनवतीर्णमशनादिकम् 'आहारेइ' आहरति, 'आहारेतं वा साइज्जई' आहरन्तं वा स्वदते स प्रायश्चित्तभाग् भवति ॥२२॥ भाष्यम्-आयरियाइअदिण्णं, असणाइ चउन्विहं । वत्थ कंबल--पत्ताई, कयावि नेव गेण्हए ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy