SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ११४ परिषहा भवन्ति । राज्ञा सहातिपरिचयकरणेऽनुकूलप्रतिकूलोपसर्गसंभवेन प्रसङ्गोऽपि, तस्माद्राज्ञोऽतिप्रशंसनं न कर्त्तव्यमिति ॥ सू० २|| निशीथसूत्रे संयमात्मविराधनादि सूत्रम् - जे भिक्खू रायं अच्छी करेइ अच्छी करेंतं वा साइज्जइ ॥ सू० ३ ॥ छाया - यो भिक्षुः राजानमच्छीकरोति, अच्छीकुर्वन्तं वा स्वदते ॥सू० ३॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'राय' राजानम् ' अच्छी करेइ' अच्छी करोति, अच्छो निर्मलस्तं करोति अच्छीकरोति, औषधयन्त्रमन्त्रादिदानेन रुग्णं नीरोगं करोति । 'अच्छी करेंतं वा साइज्जइ' अच्छी कुर्वन्तं वा स्वदतेऽनुप्रोदते स प्रायश्चित्तभाग् भवति || सू० ३|| सूत्रम् — जे भिक्खू रायं अत्थी करेइ अत्थी करेंतं वा साइज्जइ ॥ सू० ४ ॥ छाया - यो भिक्षुः राजानमर्थीकरोति अर्थीकुर्वन्तं वा स्वदते ॥ सू० ४ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'रायं' राजानम् अत्थीकरेइ' अर्थीकरोति यावता व्यापारेण राजा श्रमणेऽर्थी प्रयोजनवान् भवेत् तथा करोतीत्यर्थीकरोति । अतीतानागतवस्तुनो ज्ञाताऽयं श्रमणो मय्यनुकूलो मां मन्त्रादि दास्यतीत्याशावन्तं राजानं स्वसमीपे समागमनाय प्रयोजनवन्तं करोत्यर्थीकरोतेरर्थः । ' अत्थी करेंतं वा साइज्जइ' अर्थीकुर्वन्तं वाऽन्यं स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति, तस्याज्ञाभङ्गादयो दोषा भवन्ति ॥०४ || " एवं - 'रायारक्खयं' राजारक्षकं राज्ञ आत्मरक्षकम् - 'अत्तीकरेइ ५, अच्चीकरेइ ६, अच्छीकरेइ ७, अत्थीकरेइ ८, इति चत्वारि सूत्राणि ॥सू० ८॥ एवमेव 'नगरारक्खयं ' नगरारक्षकं नगरपालकं राजपुरुषम्, अत्रापि चत्वारि सूत्राणि ॥ सू० १२॥ एवमेव 'णिगमा रक्खयं' निगमारक्षकं, तत्र निगमः - व्यापारप्रधानस्थानं, तस्याधिष्ठातारम् । अत्रापि चत्वारि सूत्राणि ॥ सू० १६ ॥ एवं 'सव्वारक्खयं' सर्वारक्षकम् सर्वान् राजारक्षकादारभ्य निगमारक्षकपर्यन्तान् सर्वान्, आ पामराः प्रजा वा आ-समन्ताद् रक्षति यः स सर्वारक्षकः प्रधानोऽधिकारी, तम् । अत्रापि चत्वारि सूत्राणि ॥|२०|| 'अत्तीकरेइ १, अच्चीकरेइ २, अच्छीकरेइ ३. अत्थीकरेइ ४' इत्येतद्विषयाणि प्रत्येकं चत्वारि चत्वारि सूत्राणि राजारक्षकादारभ्य सर्वारक्षकपर्यन्तानां विषये व्याख्येयानि राजसूत्रादारभ्य सर्वारक्षकसूत्रपर्यन्तानि पञ्चापि सूत्राणि आत्मीकरणादिकमधिकृत्यैकग मानि सन्तीति ॥ सू० ५-२०॥ भाष्यम् - अत्तीकरेइ य णिवाइ कयाइ अच्ची, अच्छीकरेइ जइ वाऽह करेज्ज अस्थी । सव्वत्थ एत्थ दुहओ उवसग्गदोसा, तम्हा जई नहि करेज्ज वयंति सुत्ते || छाया - आत्मीकरोति च नृपादि कदाचिदर्ची अच्छीकरोति यदिवाऽथ कुर्यादर्थी । सर्वत्राऽत्र द्विघात उपसर्गदोषाः तस्माद्यतिर्नहि कुर्याद्वदन्ति सूत्रे ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy