________________
wwwwwwwwwww
१२०
निशीथसूत्रे तत्राऽधिकरणं नाम-अधिक्रियतेऽधोगतौ पात्यते आत्माऽनेनेत्यधिकरणं कलहः, तथाभूतानि-अधिकरणानि 'उप्पाएइ' उत्पादयति- नवीनक्लेशानुत्पादयति 'उप्पाएन्तं वा साइज्जइ' उत्पादयन्तं वा नवीनमधिकरणम् , स्वदतेऽनुमोदते, स प्रायश्चित्तभाग भवति तस्याज्ञाभङ्गादयोऽपि दोषा भवन्ति ॥ सू० २७॥
अत्राह भाष्यकारः-- भाष्यम्-दुहाहिगरणं वुत्तं, दव्व-भावप्पभयो ।
दव्वे चउव्विहं णेज्ज, भावे सत्थाणुसारओ ॥ छाया-द्विधाऽधिकरणं प्रोक्तं द्रव्य-भाव-प्रमेदतः ।
द्रव्ये चतुर्विधं ज्ञेयं भावे शास्त्रानुसारतः॥ अवचूरिः-'दुहाहिगरणं' इत्यादि । यदिदमधिकरणं कथितं तद् द्रव्य-भावप्रभेदतो द्विधा द्विप्रकारकं प्रोक्तम् । तत्र द्रव्यतोऽधिकरणं चतुर्विधम् , तथथा-निर्वर्तनाधिकरणम् १, निक्षेपाधिकरणम् २, संयोजनाधिकरणम् ३, निसर्जनाधिकरणम् ४ चेति । तत्र-निर्वर्तनाऽधिकरणं' द्विविधम्-मूलोत्तरभेदात् । तत्र-मूलनिवर्तनाऽधिकरणं पञ्चविधम् , तानि-औदारिकादिशरीरपञ्चकस्य निर्वतनरूपाणि पञ्च, तान्यपि एकैकं संघातकरणशाटकरणतदुभयकरणभेदात् त्रिविधम् । तत्र-संघातकरणं-पुद्गलानां पिण्डीकरणम् । शाटकरणं पुद्गलानां परिशाटनम् । उभयकरणम्--संघात-परिशाटोभयकरणम् । एतद्विषयेऽधिकरणम् । तत्र-तैजसकार्मणरूपे शरीरद्वये सर्वसंघातकरणं न भवति, अनादित्वात् , शेषेषु त्रिषु शरीरेषु-औदारिक-वैक्रिया-ऽऽहारकरूपेषु संघातपरिशाट-तदुभयरूपं त्रयमपि निवर्त्तनाधिकरणं भवति, तत्र स्थितिः संघात-परिशाटयोः प्रत्येकमेकसामयिकी, तदुभयस्यानियता स्थितिः, यथा-संघात आदौ, परिशाटोऽन्ते भवति । अत्राप्पदृष्टान्तःयथा-अपूपः, स च घृते प्रक्षिप्तः प्रथमसमये एकान्तेन घतग्रहणं करोति, द्वितीयादिसमयेषु घृतं गृह्णाति मुञ्चति च, एवं यथा लोहकारस्तप्तमायसं जले प्रक्षिपति तदा तत् प्रथमसमये एकान्तेन जलादानं करोति, द्वितीयादिसमयेषु गृह्णाति मुञ्चति च । एवं त्रिषु औदारिकादिशरीरेषु प्रथमसमये ग्रहणं, द्वितीयादिसमयेषु संघात--परिशाटौ द्वावपि भवतः । तैजसकार्मणयोः सार्वकालिकः संघातः परिशाटश्च, तयोरनादित्वात् । पञ्चानामपि सर्वशाटोऽन्ते भवति । इदं मूलनिवर्तनाधिकरणम् । अथवा-औदारिक-वैक्रियाऽऽहारकेति त्रयाणां शरीराणां मूलकारणानि अष्टौ-शिरः १. उरः, २, उदरं ३, पृष्ठिः ४, बाहुद्वयम् ५, ६, उरुद्वयं ७-८ चेति । शेषमुत्तरकरणम् । अथवाआयेषु औदारिकवैक्रियाहारकरूपेषु-त्रिषु शरीरेषु कर्णवेधकरणं, कर्णच्छेदकरणं त्रिफलादिघतादिना वर्णकरणं चेत्युत्तरकरणम् । अथवा त्रिषु आयेषु शरीरेषु निर्वर्तनाधिकरणं भवति । तत्रऔदारिकम्-एकेन्द्रिय-द्विन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रिय-भेदात्पञ्चविधम् । तत्तच्छरीरनिर्वर्तन
શ્રી નિશીથ સૂત્ર