________________
चूर्णिभाष्यावचूरिः उ० ३ सू० ७६-७९
अस्थानेषु - उच्चारादिपरिष्ठापन निषेधः १०९ दाहे वा क्षारकरणस्थाने, यत्र स्थानविशेषे क्षारद्रव्य (साजी खार - आदि) करणार्थं क्षारजातीयकाष्ठं दह्यते तादृशस्थानं क्षारदाह इति कथ्यते, तत्र, 'गायदाहंसि वा' गात्रदाहे वा ज्वरादिरोमाकान्तानां पालितपशूनां गवादीनां तत्तदङ्गावयवस्तप्तलोहशलाकया दह्यते तस्मिन् गात्रदाह - स्थाने 'तुसदाहंसि वा' तुषदा हे वा-यत्र स्थले कुम्भकारादयः नूतनघटादीनां पाकक्रियायां तुषादिकं दहन्ति तस्मिन् तुषदाहस्थाने 'भुसदाहंसि वा' बुसदाहे वा “कडङ्गरो बुसं क्लीबे, धान्यत्वचि पुमांस्तुषः" इत्यमरः “भुसा" इति लोकप्रसिद्धस्य दाहस्थाने । एतादृशदाहस्थाने यदि 'उच्चारपासवणं परिद्ववेइ' उच्चारप्रस्रवणं परिष्ठापयति, तथा - ' परिहवेंतं वा साइज्जइ' परिष्ठापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ७५ ॥
सूत्रम् - जे भिक्खू सेयाययणंसि वा पंकंसि वा पणगंसि वा उच्चारपासवणं परिवेs परिद्ववेंतं वा साइज्जइ ॥ सू० ७६ ॥
छाया - -यो भिक्षुः स्वेदायतने वा, पड़के वा पनके वा उच्चारप्रस्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ सू० ७६ ॥
1
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'सेयाययणंसि वा, स्वेदायतने वा - सचित्तजलमिश्रितकर्दमबहुलस्थाने 'पंकंसि वा' पङ्के वा सामान्यपङ्के 'पणगंसि वा' पनके वा-जलप्रपातजनितशेवाल (‘नीलन- फुलन') इति लोकप्रसिद्धस्थाने वा 'उच्चार पासवणं परिद्ववे' उच्चारप्रस्रवणं परिष्ठापयति, 'परिद्ववेंतं वा साइज्जइ' परिष्ठापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ७६ ॥
सूत्रम् - जे भिक्खू अहिणवियासु गोलेहणियासु वा अहिणवियासु मट्टियाखाणीसु वा परिभुंजमाणियासु वा अपरिभुजमाणियासु वा उच्चारपासवणं परिवेइ परिट्ठवें व साइज्जइ ॥ सू० ७७॥
छाया -- यो भिक्षुः अभिनविकासु गोलेनिकासु वा अभिनविकासु मृत्तिकाखानिषु वा परिभुज्यमानासु वा अपरिभुज्यमानासु वा उच्चारप्रेस्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ सू० ७७ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अहिणवियासु' अभिनविकासु-नव निर्मितासु 'गोलेहणियासु' गोलेहनिकासु-यत्र गवामवलेहनार्थं लवणादिक्षारद्रव्यं स्थाप्यते यदवलिय गावो रुचिपूर्वकं पानीयं पिबन्ति तृणादिकं वा खादन्ति तादृशानि स्थान नि गोलेहनिकाः कथ्यन्ते, तासु गोनिमित्तं नवनिर्मितासु गोटेहनिकासु 'अहिणवियासु वा मट्टियाखाणीसु' नवीनासु वा मृत्तिकाखानिषु यस्मात् - मृत्तिका निष्कास्यते तादृशस्थानेषु 'परिभुं जमाणियासु वा' अपरिभुंज
શ્રી નિશીથ સૂત્ર