SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ११० ___ निशीथसूत्रे माणियासु वा' परिभुज्यमानासु-व्यवह्रियमाणासु अपरिभुज्यमानासु-अव्यवह्रियमाणासु वा भूमिषु 'उच्चारपासवणं परिवेइ' उच्चारप्रस्रवणं परिष्ठांपयति, परिठवेतं वा साइज्जइ' परिष्ठापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागू भवति, संयमात्मविराधनालोकनिन्दादिदोषसद्भावात् ॥ सू०७७॥ सूत्रम्--जे भिक्खू उंबरवच्चंसि वा नग्गोहवच्चंसि वा आसत्थवच्चंसि वा उच्चारपासवणं परिहवेइ परिट्ठवेंतं वा साइज्जइ ॥सू० ७८॥ छाया-यो भिक्षुः उदुम्बरवर्चसि वा न्यग्रोधवर्चसि वा अश्वत्थवर्चसि वा उच्चारप्रसवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ।। सू० ७८॥ चूर्णी- 'जे भिक्खू इत्यादि । 'जे भिक्खू' यो भिक्षुः 'उंबरवच्चंसि वा' उदुम्बरवर्चसि वा, उदुम्बरो वृक्षविशेषः 'उमर' इति 'गुलर' इति वा लोके प्रसिद्धस्तस्य वर्चसि प्रत्यासन्नप्रदेशे यत्र गिरितटे फलानि पतन्ति पात्यन्ते पुजीक्रियन्ते वा, तस्मिन् प्रदेशे, 'नग्गोहवच्चंसि वा' न्यग्रोधवर्चसि वा, न्यग्रोधो वटवृक्षस्तस्यासन्नप्रदेशे यत्र फलानि पतन्ति पात्यन्ते वा तत्र, 'आसत्थवच्चंसि वा' अश्वत्थवर्चसि वा तत्राऽश्वत्थः पिप्पलवृक्षस्तत्फलपतन-पातनप्रदेशे, 'उच्चारपासवणं' उच्चारप्रस्रवणं 'परिहवेइ' परिष्ठापयति 'परिहवेंतं वा साइज्जई' परिष्ठापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ७८॥ सूत्रम्--जे भिक्खू इक्खुवणंसि वा सालिवणंसि वा कुसुंभवणंसि वा कप्पासवणंसि वा उच्चारपासवणं परिट्ठवेइ परिहवेंतं वा साइज्जइ ॥सू० ७९॥ ___ छाया-यो भिक्षुः इझुवने वा शालिवने वा कुसुम्भवने वा कार्यासवने वा उच्चारप्रस्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ सू० ७९॥ चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'इखुवर्णसि वा' इक्षुवने वा, इक्षुः-'सेलडी'-तिभाषाप्रसिद्धः, तस्य वनं-क्षेत्रं, तत्र । यथा-वने वृक्षा निविडाः सघनाः तद्वत्क्षेत्रे-इक्षुणां सघनत्वात् क्षेत्रे वनत्वस्योपचारः, तथा च एतादृशेक्षुवने वा 'सालिवणसि वा' शालिवने वा, शालिः-व्रीहिस्तस्य वनं तत्र 'कुसुंभवणंसि वा' कुसुम्भवने वा तत्र-कुसुम्भः-रक्तरङ्गसमुत्पादकपुष्पविशेषः 'कुसुंबा' इति भाषाप्रसिद्धः, तस्य वनं क्षेत्रं तत्र 'कप्पासवणं सि वा' कासिवने वा कार्पासक्षेत्रे 'उच्चारपासवणं परिहवेइ' उच्चारप्रस्रवणं परिष्ठापयति, 'परिहवेंतं वा साइज्जई' परिष्ठापयन्तं वा स्वदते स प्रायश्चितभाग् भवति ॥ सू० ७९॥ सूत्रम्--जे भिक्खू डागवच्चंसि वा सागवच्चंसि वा मूलगवच्चंसि वा कोत्थुभखिच्चंसि वा खाखच्चंसि वा जीरयवच्चंसि वा दमणय શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy