________________
निशीथसूत्रे गृहेलुके वा--गृहस्य--एलुकेऽग्रभागे 'गिहंगणंसि वा' गृहाङ्गणे वा--गृहमध्ये निरावृतस्थानविशेषे 'गिहवच्चंसि वा' गृहवर्चसि वा--गृहस्थव!गृहे, गृहस्थस्योच्चार निवारणस्थाने, 'उच्चारं वा' उच्चारं--पुरीपोत्सर्ग वा 'पासवणं चा' प्रस्रवणम्--मूत्रं वा 'परिद्ववेइ' परिष्ठापयति--व्युत्सृजति गृहस्थस्यैतेषु प्रदेशेषु यदि भिक्षुर्मूत्रपुरीषादिकं करोतीत्यर्थः । 'परिहवेंतं वा साइज्जई' परिष्ठापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग भवति ॥ सू० ७३॥
सूत्रम्--जे भिक्खू मडगगिहंसि वा मडगछारियंसि वा मडगथूभियंसि वा मडगआसयंसि वा मडगलेणंसि वा मडगथंडिलंसि वा मडगवच्चंसि वा उच्चारं वा पासवणं वा परिहवेइ परिहवेतं वा साइज्जइ ॥ सू०७४ ॥
छाया-यो भिक्षुः मृतकगृहे वा मृतकक्षारे वा मृतकस्तूपे वा मृतकाश्रये वा मृतकलयने वा- मृतकस्थण्डिले वा मृतकवर्चसि वा, उच्चारं वा प्रस्रवणं वा, परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥सू०७४॥
___ चूर्णी-'जे भिक्खू इत्यादि 'जे भिक्खू' यो भिक्षुः 'मडगगिहंसि वा' मृतकगृहेयत्र मृतकं स्थापयित्वा तदुपरि मृत्तिकादिना चयनं क्रियते किन्तु न दहति तत् मृतकगृहं कथ्यते, तस्मिन् 'मडगछारियसि वा' मृतकक्षारे वा-दग्धमृतकस्य पुजीकृतभस्मस्थाने 'मडगथूभियंसि वा' मृतकस्तूपे मृतकोपरिकृतशिखररूपे स्थाने वा 'मडगआसयंसि वा मृतकाश्रयेश्मशानासन्नप्रदेशे यत्रानीय मृतकं स्थाप्पते तस्मिन् 'मडगलेणंसि वा मृतकलयने मृतकदाहस्थाने कृतं देवकुलादिकं स्थानम् , तस्मिन् , 'मडगथंडिलंसि वा' मृतकस्थण्डिले वा मृतकभस्मचितावर्जिते मृतकदहनस्थाने मडगवच्चसि वा' मृनकवर्चसि शटितमृतकस्थाने, यत्र-श्वादयो मृतकस्याङ्गप्रत्यङ्गाद्यानीय पातयन्ति, तत्स्थाने 'उच्चारंबा पासवणं वा परिहवेई' उच्चारं-पुरीषं प्रस्रवणंमूत्रं परिष्ठापयति, तथा परिहवेतंवा साइज्जइ' परिष्ठापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ७४॥
सूत्रम्--जे भिक्खू इंगालदाहंसि वा खारदाहंसि वा गायदाहंसि वा तुसदाहंसि वा भुसदाहंसि वा उच्चारपासवणं परिट्ठवेइ, परिठ्ठवतं वा साइज्जइ ॥ सू० ७५॥
छाया-यो भिक्षुः अङ्गारदाहे वा क्षारदाहे वा गात्रदाहे वा तुषदाहे वा भुसदाहे वा उच्चारं वा प्रस्रवणं वा परिष्ठापयति, परिष्ठापयन्तं वा स्वदते ॥सू० ७५।।
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'इंगालदाहंसि वा' अङ्गारदाहे वा, यत्र-खदिराद्यगारा (कोलसा) इति लोकप्रसिद्धाः क्रियन्ते तत्स्थाने 'खारदाहंसि वा' क्षार
શ્રી નિશીથ સૂત્ર