________________
चूर्णि० उ०३ सू० ७२ - ७५ वशीकरणसूत्रस्यास्थानेषूच्चारादिपरिष्ठापनस्य च नि० १०७
छाया - मस्तके प्रावरणमंसे कुर्वाणोऽवरोपणम् ।
गृहिणो लिङ्गमन्यस्य कुर्वन् दोषभाग भवेत् ॥
अवचूरिः -- ' मत्थे' इत्यादि । ग्रामाद्ग्रामान्तरं गच्छन् संयतः मस्तके स्वशिरोदेशे प्रावर - णम् आच्छादनम्, अंसे-स्कन्धस्यैकदेशे शोभार्थम् अवरोपणं - स्थापनं वा कुर्वन्, मस्तके स्कन्धदेशे वा चोलपट्टादिकं बध्नन्, यद्वा गृहिणो लिङ्गम् - गृहस्थवेषं यद्वा - गृहस्थवत् वस्त्राच्छादनं करोति, अन्यस्य वा लिङ्गम् अन्ययूथिकवत् वस्त्रस्य परिधानादि कुर्वन् तिष्ठति स दोषभाग् भवेत्, आज्ञाभङ्गादिकान् दोषान् लभेत ॥सू० ७१॥
सूत्रम् — जे भिक्खू सणकप्पासाओ वा उष्णकप्पासाओ वा बोंडकप्पासाओ वा अमिलकप्पासाओ वा वसीकरणसुत्ताई करेइ करें वा साइज्जइ ॥ सू० ७२ ॥
छाया - यो भिक्षुः शणकार्पासाद्वा ऊर्णाकार्पासाद्वा बोंडकार्यासाद्वा अमिलकार्पासाद्वा वशीकरणसूत्राणि करोति कुर्वन्तं वा स्वदते ॥सू० ७२ ॥ चूर्णो – 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः, 'सणकप्पासाओ वा' राणकार्पासाद्वा--शणसूत्रात् 'उण्णकप्पासाओ वा' ऊर्णाकार्पासाद्वा ऊर्णासम्पादितसूत्राद्वा 'बौडकप्पासाओ वा' बोंडकार्यासात् तत्र 'बोंडं' इति देशी शब्दः कर्पासवाची तेन बोंडसूत्रादिति कार्पाससूत्राद्वा 'अमिलं' इति देशी शब्दः ऊर्णाविशेषवाची तेन अमिलं-- ऊर्णाविशेषः, तन्निर्मितसूत्राद्धा एतैः शणकार्पासादिभिः सूत्रैः 'वसीकरणसुत्ताई करेइ' वशीकरणसूत्राणि करोति, अयं भावःयो भिक्षुर्वशीकरणार्थं पतिपुत्रादि वशीकर्तुं शणकार्पासादिना सूत्राणि करोति-निर्माति । 'करें वा साइज्जइ' कुर्वन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ७२॥
सूत्रम् — जे भिक्खू गिहंसि वा गिहमुहंसि वा गिहदुवारंसि वा गिहपडिदुवारंसि वा गिल्लूयंसि वा गिहंगणंसि वा गिवच्चंसि वा उच्चारं वा पासवणं वा परिवेइ परिद्ववेंतं वा साइज्जइ ||सू०७३॥
छाया -यो भिक्षुः गृहे वा गृहमुखे वा गृहद्वारे वा गृहप्रतिद्वारे वा गृहलके वा गृहाङ्गणे वा गृहवर्चसि वा उच्चारं वा प्रस्त्रवणं वा परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥०७३||
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'गिहंसि वा' गृहे वा 'गिहसुहंसि वा' गृहमुखे वा 'गिहदुवारंसि वा' गृहद्वारे वा यदाश्रित्य गेहे प्रविशति - तस्मिन् स्थाने वा, 'गिहपडिदुवारंसि वा' गृहप्रतिद्दद्वारे वा - गृहस्याऽवान्तरद्वारे इत्यर्थः 'गिहेलुयंसि वा '
શ્રી નિશીથ સૂત્ર