________________
निशीथसूत्रे छाया-दिग्धं मलं स्वयमथाऽत्र पतेत् चित्रं-,
तत्पातने यदि यतेत मुमुक्षुलोकः । शृङ्गारकामुकजनेषु च साधलोके, भेदः कियानहह ! संशयितं च चेतः ॥ स्वेदादिकं देहमलं निहरेत् स्वदेहतः ।
आज्ञाभङ्गादिकान् दोषान् प्राप्नुयान्नात्र संशयः ॥ अवचूरिः-'दिद्धं मलं' इत्यादि । अथ-अत्र देहे दिग्धं-लिप्त-शरीरसंग्नं मलं वृद्धिंगतं 'सत्' स्वयमेव पतेत्-शरीरात् पृथग् भवेत् तस्य-स्वयं पततो मलस्य पातने-निष्कासने, शृङ्गारिकजनो व्यवस्यति तथैव क्षुद्रकर्मणि मलनिष्कासने यदि मुमुक्षुलोकः साधुवों यतेत, अत्र चित्रं मन्ये । यः साधुर्मोक्ष यत्नतः साधयति, स यदि यत्नमास्थाय शरीरशोभामेव वर्द्धयेत्, शरीरशोभामेव साधयेत्-तदा शृङ्गारकामुकेषु जनेषु च पुनः साधुलोके कियान् भेदः ! को भेदः ? अहह (!) मदीयं चेतः संशयितम् , यथा न संभावयामि यत् शरीरशोभासंलग्नो मुनिर्णोक्षं साधयिष्यतीति । इत्थंमुहुर्मुहुः शास्त्रतत्त्वविद्भिर्बोध्यमानोऽपि यदि भिक्षुः स्वेदेहत स्वदादिकं देहमलम् उपलक्ष णात्कणे-नेत्रादिमलं निहरेत् , तदा-आज्ञाभङ्गादिकान् दोषान् प्राप्नुयात् , अत्र सन्देहो न मन्तव्यः ॥सू० ७०॥
सूत्रम्-जे भिक्खू गामाणुगामं दूइज्जमाणे अप्पणो सीसदुवा. रियं करेइ करेंतं वा साइज्जइ ॥ सू० ७१॥
__छाया-यो भिक्षुामानुग्राम द्रवन्-आत्मनः शीर्षद्वारिकां करोति कुर्वन्तं वा स्वदते ॥ सू० ७१॥
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'गामाणुगामं दूहज्जमाणे' ग्रामानुग्रामं द्रवन्-एकस्माद् ग्रामाद् ग्रामान्तरं गज्छन् , शिशिरऋतौ-ग्रीष्मऋतौ च शीत-धर्मंवारणार्थं 'अप्पणो' आत्मनः, 'सीसवारियं' शीर्षद्वारिका -शीर्षस्य मस्तकस्य द्वारिका आवरकां, शीर्षाऽऽवरणमिति यावत् । साध्वी तु मस्तकं 'धूंघट' इति लोकप्रसिद्धेनाऽवगुण्ठयितुं शक्नोतीत्यपवादः । 'करेइ' करोति, आतपः शीतं वा मा बाधतामिति बुद्धया येन केनापि साधनेन मस्तकमाछादयति । 'करेंतं वा साइज्जई' कुर्वन्तं वा स्वदते । यो हि भिक्षुर्मासकल्पं परिसमाप्य ग्रामाद्ग्रामान्तरं गच्छन् स्वात्मनः शिरसि वस्त्रादिना छत्रवत् प्रावरण-मवगुण्ठनं करोति तथा कुर्वन्तं स्वदतेऽनुमोदते स प्रायश्चित्तभाग भवति ॥ सू० ७१॥
अत्राह भाष्यकार:भाष्यम्- मत्थे पावरणं असे, करेमाणेऽवरोवणं ।
गिहिस्स लिंगमन्नस्स, करंतो दोसभा हवे ॥
શ્રી નિશીથ સૂત્ર