________________
चूर्णिभाष्यावचूरिः उ०३सू०६९-७१ अध्यादिमलनिष्कासनकायगतस्वेदादिनिहरणनि० १०५
सूत्रम्-जे भिक्खू अप्पणो अच्छिमलं वा कण्णमलं वा दंतमलं वा णहमलं वा णीहरेज्ज वा विसोहेज्ज वा, णीहरंतं वा विसोहेंतं वा साइज्जइ ॥ सू० ६९॥
छाया-यो भिक्षुः आत्मनोऽक्षिमलं वा कर्णमलं वा दन्तमलं वा नखमलं वा निहरेता विशोधयेद्वा, निर्हरन्तं वा-विशोधयन्तं वा स्वदते ।।सू० ६९॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो' आत्मनः अच्छिमलं वा' -अक्षिमलं नेत्रमलम् , तथा—'कण्णमलं वा' कर्णमलं वा, ‘दंतमलं वा' दन्तमलंदन्तपक्तिसंलग्नम् । 'णहमलं वा' नखमलं वा-नखानां करचरणगतानां मध्ये विद्यमानं मलम् तत्स्थानात् 'णीहरेज्ज वा' निर्हरेत् निष्कासयेत् , तथा--'बिसोहेज्ज वा' विशोधयेत्--मलमपनीय शोभा संपादयेत् । ‘णीहरेंतं वा विसोत वा साइज्जइ' निर्हरन्तं वाविशोधयन्तं वा स्वद तेऽनुमोदते स प्रायश्चित्तभागी भवति ॥सू० ६९॥
सूत्रम्-जे भिक्खू अप्पणो कायाओ सेयं वा जल्लं वा पंकं वा मलं वा णीहरेज्ज वा विसोहेज्ज वा नीहरेतं वा विसोहेंतं वा साइज्जइ ।।७०॥
छाया-यो भिक्षुरात्मनः कायात् स्वेदं वा-जल्लं वा पङ्क वा-मलं वा निहरेद्वाविशोधयेद्वा, निर्हरन्तं वा-विशोधयन्तं वा स्वदते ।। सू. ७०।।
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू , यो भिक्षुः, 'अप्पणो कायाओ' आत्मनः कायात्-स्वशरीरात् 'सेयं वा' स्वेदं वा-धर्माऽतिशयेन शरीराद्विनिर्गतं जलम्, 'जल्लं वा' जल्लं शरीरमलम् 'पंकं वा' तत्र-पङ्कः-शरीरसंलग्नप्रस्वेदमिश्रितधूलिरूपस्तम्' 'मलं वा' मलं-शोणितादिरूपम् 'नीहरेज्ज वा' निर्हरेत्-निष्कासयेत् 'विसोहेज्ज वा' विशोधयेत, तथा-'नीहरतं वा-विसोत वा साइज्जई' निर्हरन्तं वा विशोधयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग भवति तस्याज्ञाभङ्गादयो दोषा भवन्ति ॥ सू० ७०॥
(वसन्ततिलकावृत्तम्) भाष्यम् - दिद्धं मलं सयमहेत्थ पडेज्ज चित्तं,
तप्पाडणे जइ जएज्ज मुमुक्खुलोगो । सिंगारकामुगजणेसु य साहुलोगे, भेओ कियं अहह संसइयं च चेओ ॥ सेयाइयं देहमलं, नीहरेज्जा सदेहओ । आणाभंगाइए दोसे, पावेज्जा नेत्थ संसओ ॥
શ્રી નિશીથ સૂત્ર