________________
चूर्णिभाष्यावचूरिः उ० ३ सू० ५९ ६८ उत्तरौष्ठादिरोमकतनाक्ष्यामर्जनादिनिषेधः १०३ जे भिक्खू अप्पणो ओढे लोद्धेण वा कक्केण वा चुण्णेण वा पउमचुण्णेण वा, उल्लोलेज्ज वा उव्वट्टेज्ज वा, उच्छोलेंतं वा उव्वटेंतं वा साइज्जइ ॥ सू०५६॥जे भिक्खू अप्पणो ओढे सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोवेज्ज वा उच्छोलेंतं वा बधोवेन्तं वा साइज्जइ ॥सू०५७।। जे भिक्खू अप्पण्णो ओढे फुमेज्ज बा रएज्ज बा फुतं वा रएंतं वा साइज्जइ ॥सू० ५८॥" व्याख्या पूर्व पादसूत्रे गता ॥ सू०५४-५८॥
सूत्रम्--जे भिक्खू अप्पणो दीहाइं उत्तरोठरोमाई कप्पेज्ज वा संठवेज्ज वा, कप्तं वा संठवेतं वा साइज्जइ ॥ सू० ५९॥ एवं दीहाई अच्छिपत्ताई ॥ सू०६०॥
छाया-यो भिक्षुः आत्मनो दीर्धाणि-उत्तरोष्ठरोमाणि कल्पयेद्वा संस्थापयेद्वा, कल्पयन्तं वा संस्थापयन्तं वा स्वदते ॥ सू० ५९॥ एवम्-दीर्धाणि-अक्षिपत्राणि ।। सू० ६० ॥
चूर्णी—'जे भिक्खू' इत्यादि । 'जे भिक्खू यो भिक्षुः 'अप्पणो' आत्मनः 'दीहाई' दीर्घाणि-प्रवृद्धानि 'उत्तरोहरोमाई' उत्तरोष्ठरोमाणि 'कप्पेज्ज वा' कल्पयेत्-शोभार्थं छिन्द्यात्, संठवेज्ज वा संस्थापयेत् , शोभावृद्धयर्थमशोभानिवारणार्थमूर्ध्वमधः कुर्यात् । तथा 'कप्तं वा संठवेंतं वा साइज्जइ' कल्पयन्तं वा संस्थापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति । तस्याज्ञाभङ्गादयो दोषा भवन्ति ॥सू० ५९॥ 'एवं दीहाइं अच्छिपत्ताई' एवम् पूर्वोक्तोत्तरोष्ठसूत्रवदेवअक्षिपत्रसूत्रमपि ज्ञेयम् । अक्षिपत्राणीति-अक्षिपक्ष्माणीत्यर्थः, एवं पूर्वसूत्रवत्-अक्षिपत्रस्त्रं ज्ञेयम् । तथाहि-"जे भिक्खू अप्पणो दीहाइं अच्छिपत्ताई कप्पेज्ज वा संठवेज्ज वा, कप्तं वा संठवेंतं वा साइज्जइ" व्याख्या पूर्वोक्तोत्तरोष्ठरोमकर्तनसूत्रस्येव बोध्या ॥ सू० ६०॥
सूत्रम्-जे भिक्खू अप्पणो अच्छीणि आमज्जेज्ज वा पमज्जेज्ज वा आमज्जंतं वा पमज्जंतं वा साइज्जइ ॥ सू०६१॥ एवमच्छिसु पायगमओ भाणियब्वो, जाव फुमेज्ज वा रएज्ज वा फुतं वा एतं वा साइज्जइ ॥६६।।
छाया-यो भिक्षुः आत्मनोऽक्षिणी आमार्जयेद्वा प्रमार्जयेद्वा, आमार्जयन्तं वा, प्रमार्जयन्तं वा स्वदते ॥ सू० ६१॥ एवमक्षिषु पादगमको भणितव्यः यावत् फूत्कुर्याद्वा रज्जयेद्वा फूत्कुर्वन्तं वा रञ्जयन्तं वा स्वदते ॥ सू० ६२-६६ ॥
चूर्णी-'जे भिक्खू' इत्यादि 'जे भिक्खू' यो भिक्षुः 'अप्पणो अच्छीणि' आत्मनोऽक्षिणी-नेत्रे, "आमज्जेज्ज वा' आमार्जयेत्-तयोरेकवारं मार्जनं कुर्यात् 'पमज्जेज्ज वा' प्रमार्जयेद्वा, अनेकवारं प्रमार्जनं कुर्यात् । तथा 'आमज्जंतं वा पमज्जतं वा 'साइज्जई' आमार्जयन्तं वा-प्रमार्जयन्तं वा-स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ६१॥ 'एवमच्छिसु'
શ્રી નિશીથ સૂત્ર