SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० ३ सू० ५०-५८ दन्तघर्षणाद्यौष्ठाऽऽमर्जनादिनिषेधः १०१ छाया - एवम्-दीर्घाणि बस्तिरोमाणिः ॥४२॥ दीर्घाणि चक्षुरोमाणि० ॥४३|| दीर्घाणि जङ्घारोमाणि० ॥४४॥ दीर्घाणि कक्षारोमाणि० ॥४५॥ दीर्घाणि श्मश्रुरोमाणि ॥४६॥ दीर्घान् केशान्० ॥४७॥ दोर्घाणि कर्णरोमाणि० ॥४८॥ एवं नासारोमाणि ॥४९॥ चूर्णी- एतानि द्विचत्वारिशत्सूत्रादारभ्य एकोनपञ्चाशत्सूत्रपर्यन्तानि सूत्राणि पूर्ववद् व्याख्येयानि ॥ सू० ४२-४९।। सून्नम्-जे भिक्खू अप्पणो दंते आघंसेज्ज वा पघंसेज्ज वा आघंसंतं वा पघंसंतं वा साइज्जइ ॥ सू० ५०॥ ___ छाया-यो भिक्षुः आत्मनो दन्तान् आघर्षद्वा प्रघर्षेद्वा आघर्षन्तं वा प्रघर्षन्तं वा स्वदते ॥ सू० ५०॥ चूर्णी—'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो दंते' आत्मनः स्वस्य दन्तान् 'आफंसेज्ज वा' आघर्षत् मृत्तिकया क्षारपुटादिना वा सकृत् घर्षेत्, 'पघं. सेज्ज वा' प्रघषेत्-अनेकवारं वा घर्षत् । तथा-'आघसंतं वा पधंसतं वा साइज्जइ' आघर्षन्तं वा प्रघर्षन्तं वा स्वदते । यो भिक्षुः स्वकीयदन्तान् मृत्तिकादिनैकवारमनेकवारं वा घर्षति घर्षन्तं वाऽनुमोदते स प्रायश्चित्तभागी भवति । तस्याज्ञाभङ्गानवस्थामिथ्यात्वसंयमात्मविराधनादयो दोषा भवन्ति ॥ सू० ५०॥ सूत्रम्-जेभिक्खू अप्पणो दंते सीओदगवियडेण उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोवेज्ज वा, उच्छोलेंतं वा पधोतं वा साइज्जइ ॥ सू० ५१॥ छाया-यो भिक्षुः आत्मनो दन्तान् शीतोदकविकटेन वा उष्णोदकविकटेन वा उच्छोलेद्वा प्रधावेद्वा उच्छोलन्तं वा प्रधावन्तं वा स्वदते । सू० ५१॥ चूर्णी:-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो दंते' आत्मनः स्वस्य दन्तान् 'सीओदगवियडेण वा उसिणोदगवियडेण वा' शीतोदकविकटेन-तण्डुलधावनादिजलेन अचित्तेन, उष्णोदकविकटेन-अचित्तोष्णोदकेन 'उच्छोलेज्ज वा' उच्छोलेत् एकवारं वा 'पदोवेज्ज वा' प्रधावेद् वारं वारम् । तथा- 'उच्छोलेंतं वा पधोवेतं वा साइज्जई' उच्छोलन्तं वाप्रधावन्तं वा स्वदते । यो भिक्षुः स्वकीयदन्तानेकवारमनेकवारं वा प्रक्षालयेत् अथवा-प्रक्षालयन्तमनुमोदते स प्रायश्चित्ताभाग् भवति । तस्याज्ञाभङ्गादयो दोषा भवन्ति । यस्माददन्तधावनेएते दोषा अतो भिक्षुभिर्दन्ता न प्रक्षालयितव्याः ॥सू० ५१॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy