________________
१००
निशीथसूत्रे सूत्रम्--जे भिक्खू अप्पणो पाउकिमियं वा कुच्छिकिमियं वा अंगुलीए निवेसिय निवेसिय णीहरइ, णीहरंतं वा साइज्जइ । सू० ४०॥
छाया-यो भिक्षुः आत्मनः पायुकृमिकं वा कुक्षिकृमिकं वाऽगुल्यां निवेश्य-निवेश्य निर्हरति, निर्हरन्तं वा स्वदते ॥ सू० ४० ॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू यो भिक्षुः 'अप्पणो पाउकिमियं वा' आत्मनः पायुकृमिकं वा स्वगुदास्थितक्षुद्रजीवान् -'कुच्छिकिमियं वा' कुक्षिकृमिकम् , तत्रकुक्षावुदरे भवान् - लघुजीवान 'अंगुलीए निवेसिय निवेसिय' अङ्गुल्यां निवेश्य निवेश्य-स्वाङ्. गुलीमन्तः पायौ-कुक्षौ वा प्रवेश्य प्रवेश्य 'णीहरइ' निर्हरति-निष्कासयति ‘णीहरंत वा साइज्जइ' निहरन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति । तस्याज्ञाभङ्गानवस्थामिथ्यात्वसंयमात्मविराधनादोषा भवन्ति । तत्र विधिनाऽविधिना निष्कासने जीवानां विराधनसंभवेन संयमविराधनम् । तथा-कदाचित् देहक्षतौ स्वात्मविराधनम् । तस्मात्कारणात् संयमार्थिना कदाचिदपि कृमीणां निर्हरणं न कर्त्तव्यम् , किन्तु-समभावेन कृमिबाधाजनितं दुःखं सर्वदाऽदीनभावेनाऽधिसोढव्यम् , इति ॥ सू० ४०॥
सूत्रम्--जे भिक्खू अप्पणो दीहाओ णहसीहाओ कप्पेज्ज वा संठवेज्ज वा कप्पंतं वा संठवंतं वा साइज्जइ । सू० ४१॥
__ छाया-यो भिक्षुः आत्मनो दीर्घाः नखशिखाः कल्पेत वा संस्थापयेद्वा कल्पयन्तं वा संस्थापयन्तं वा स्वदते ॥ सू० ४१ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः, 'अप्पणो दीहाओ' आत्मनो दीर्घा अतिवर्द्धमानाः 'नहसिहाओ' नखशिखाः-नखाग्रभागान् 'कप्पेज्ज वा' कल्पेतकर्तयेत् , 'संठवेज्ज वा' संस्थापयेत् -संस्कुर्यात् रागादिना, 'कप्तं वा संठवेंतं वा साइज्जई' कल्पमानं-कर्त्तयन्तं संस्थापयन्तं संस्कुर्वन्तं वा स्वदतेऽनुमोदते स प्रयश्चित्तभागू भवति । तस्याऽऽज्ञाभङ्गादयो दोषा भवन्ति । इत आरभ्यैकोनपञ्चाशत्सूत्रं यावत्-जिनकल्पिकमधिकृत्य ज्ञातव्यम् ॥ सू० ४१॥
मूलम्-एवं-दीहाइं बत्थिरोमाइं० ॥४२॥ दीहाइं चक्खुरोमाइं० ४३ दीहाइं जंघरोमाइं०॥४४॥ दीहाइं कक्खरामाई ॥४५॥ दीहाई मंसुरोमाइं०॥४६॥ दीहाई केसाई० ॥४७॥ दीहाई कण्णरामाइं० ॥४८॥ एवं नासारोमाइं० ॥सू० ४९॥
શ્રી નિશીથ સૂત્ર