________________
चूर्णि भाष्यावचूरिः उ० ३ सू० ४० ४९ पायुकृमिकादि निस्सारणनख शिखादिकर्त्तननि० ९९
मंखेत्ता, अण्णयरेणं धूवजाएणं धूवेज्ज वा पधूवेज्ज वा, धूर्वेतं वा पधूर्वेतं वा साइज्जइ || सू० ३९ ॥
छाया - यो भिक्षुः आत्मनः काये गण्डं वा पिलकं वा अरतिकां वा अर्शो वा भन्दरं वा अन्यतरेण तीक्ष्णेन शस्त्रजातेन आच्छिद्य विच्छिद्य निहत्य विशोध्य उच्छोल्यप्रधाव्य विलिप्य म्रक्षयित्वा अन्यतरेण धूपजातेन धूपयेद्वा प्रधूपयेद्वा धूपयन्तं वा प्रधूपयन्तं वा स्वदते ॥ सू० ३९ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणी कार्यसि' आत्मनः काये, गण्डादिकं स्पष्टम् । पूर्वोक्तं सर्वं म्रक्षणादिपर्यन्तं कृत्वा तदनन्तरं 'अन्नयरेणं धूवजाएणं' अन्यतरेण धूपजातेन यं कमपि धूपं वहौ प्रक्षिय्य - तज्जातधूमेन 'धूवेज्ज वा' धूपयेत् - धूमेनैकवारं धूपयेत् 'पधूवेज्ज वा' प्रधूपयेत्तादृशधूमेन वारं वारम् 'धूवेंतं वा पधूवेंतं वा साइज्जइ' धूपयन्तं वा, प्रधूपयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्त भाग भवति । तस्याज्ञाभङ्गादयो दोषाश्च भवन्ति ॥ सु० ३९॥
अत्राह भाष्यकारः -
भाष्यम् - कार्यसि अप्पणो भिक्खू, गंडाई जइ छिंदए । छिदित्ताय विच्छिदित्ता, नीहरे पूयसोणियं ॥ णीहरेता विसोहेत्ता, सीओसिणवियडेण वा । उच्छोलेज्जा पधोवेज्जा, विलिपेज्जाहवा जइ ॥ मंखेत्ता धूवजाएणं, धूवेज्जा अणुमोयए । भंगा दोसाई, पावई नत्थि संसओ || छाया - काये - आत्मनो भिक्षु-र्गण्डादि यदि छिनत्ति । छित्वा च विच्छिद्य निर्हरेत् पूयशोणितम् ॥ निर्हृत्य विशोध्य शीतोष्णविकटेन वा । उच्छोले प्रधावेत् विलिपेदथवा यदि ॥
प्रक्षयित्वा धूपजातेन धूपयेदनुमोदयेत् । आज्ञाभङ्गादिदोषान् प्राप्नोति नास्ति संशयः ॥
-
अवचूरिः – 'कायंसि अप्पणो' इत्यादि । यो भिक्षुर्गण्डादिमात्मनः काये स्थितं यदि छिनत्ति । अथाऽनन्तरम् - छित्त्वा विच्छिद्य, एकवारमनेकवारं वा । ततः पूयं वा शोणितं वा निर्हरेत्, निर्हृत्य - विशोध्य वा शीतोदकविकृतेन अचित्तशीतजलेन तण्डुलधावनादिना, अचित्ते - ष्णोदकेन वा उच्छोलेद्वा प्रधावेद्वा । अथवा विलिप्य म्रक्षयित्वा हस्तलाघवेन मर्दनं कृत्वा, ततो धूपजातेन केनापि धूपेन धूपयेत् । तथाभूतमन्यं वाऽनुमोदते स आज्ञाभङ्गादिदोषान् प्राप्नोति अत्र संशयो नास्तीति ॥ सू० ३९ ॥
શ્રી નિશીથ સૂત્ર