________________
निशीथसूत्रे प्रधाव्य अन्यतरेण आलेपनजातेन आलिम्पेद्वा विलिम्पेद्वा आलिम्पन्तं वा विलिम्पन्तं वा स्वदते ॥ सू० ३७॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः, इत्यादि स्पष्टम् । नवरम्उच्छोलनप्रधावनानन्तरम् 'अन्नयरेण आलेवणजाएणं' अन्यतमेनाऽऽलेपनजातेन-औषधिविशेषेण 'मलहम' इति लोकप्रसिद्धेन, 'आलिंपेज्ज वा' आलिम्पेत् ईषदेकवारं वा आलेपनं कुर्यात् , 'विलिंपेज्ज वा'विलिम्पेत्-अधिकमनेकवारं वा द्रव्यलेपनं व्रणोपरि कुर्यात् । 'आलिंपेतं वा विलिंपेंतं वा साइज्जई' आलिम्पन्तं वा विलिम्पन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग भवति, भवन्ति च तस्याज्ञाभङ्गादिदोषाः ॥ सू० ३७ ॥
सूत्रम्-जे भिक्खू अप्पणा कायंसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा, अन्नयरेणं तिक्खेणं सत्थजाएणं आच्छिदित्ता विच्छिदित्ता णीहरित्ता विसोहेत्ता उच्छोलित्ता पधोइत्ता विलिंपित्ता तेल्लेण वा घएण वा वसाए वा णवणीएण वा अब्भंगेज्ज वा मक्खेज्ज वा अब्भगंतं वा मक्वंतं वा साइज्जइ ॥ सू० ३८॥
छाया-यो भिक्षुः आत्मनः काये गण्डं वा पिलकं वा अरतिकां वा अर्शी वा भगन्दरं वा अन्यतरेण तीक्ष्णेन शस्त्रजातेन आच्छिद्य विच्छिद्य निहत्य विशोध्य उच्छोल्य प्रधाव्य विलिप्य तैलेन वा घृतेन वा वसया वा नवनीतेन वा अभ्यङ्गयेद्वा म्रक्षयेद्वा अभ्यङ्गयन्तं वा म्रक्षयन्तं वा स्वदते ॥ सू० ३८ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुरित्यादि स्पष्टम् । पूर्वोक्तं संवै. कृत्वा तदनन्तरं 'तेल्लेण वा' तैलेन सार्षपादिना 'घएण' घृतेन 'वसाए वा' वसया ‘णवणीएण वा' नवनीतेन म्रक्षणेन 'अब्भंगेज्ज वा' अभ्यङ्गयेत्-अल्पमेकवारं वाऽभ्यङ्गनं कुर्यात् , 'मक्खेज्ज वा' म्रक्षयेद्वा-अत्यधिकमनेकवारं वा तैलादिना मर्दनं कुर्यात् । 'अभंगेंतं वा मक्वंतं वा साइज्जई' अभ्यङ्गयन्तं वा प्रक्षयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग भवति, तस्याज्ञाभङ्गादयो दोषा भवन्ति ।। सू० ३८ ॥
सूत्रम्-जे भिक्खू अप्पणो कायंसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणं आच्छिदित्ता विच्छिदित्ता नीहरित्ता विसोहित्ता उच्छोलित्ता पधोइत्ता विलिंपित्ता
શ્રી નિશીથ સૂત્ર