________________
९६
निशीथसूत्रे
भगन्दरं - लिङ्गगुदयोर्मध्ये नाडीस्थं व्रणम्, यदि 'अन्नयरेण' अन्यतरेण - येन केनाऽपि 'तिक्खेणं' तीक्ष्णेन, 'सत्थजाएणं' शस्त्रजातेन 'आच्छिदित्ता' आच्छिद्य - ईषदेकवारं वा छेदनं कृत्वा 'विछिदित्ता' विच्छिद्य - अधिकमनेकवारं वा छेदनं कृत्वा ततो व्रणप्रदेशात् 'पूयं वा सोणियं वा' पूयं वा शोणितं वा पक्वरुधिरं पूयः, अपक्वं रुधिरं शोणितम् 'णीहरेज्ज वा' निर्हरेत्निष्कासयेत् 'विसोहेज्ज वा' विशोधयेत् - व्रणगतपूयादिकस्य शोधनं कुर्यात् । तथा 'णीहरें वा' निर्हरन्तं व्रणप्रदेशात् पूयादिकं निष्कासयन्तम्, 'विसोहेंतं वा' विशोधयन्तं पूयशोणितादेः शुद्धिं कुर्वन्तम् 'साइज्जइ' स्वदते, यो भिक्षुः स्वशरीरस्थितत्रणादिविशेषं छित्त्वा ततो गलन्तं पूयशोणितादिकं निष्कासयति विशोधयति वा, तं योऽनुमोदते वा स प्रायश्चित्तभागू भवति, भवन्ति च तस्याज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराघ नात्मविराधनादोषाः, तस्मात् कारणात् शरीरस्थमपि व्रणविशेषं छित्त्वा छेदयित्वा वा ततो निर्गलन्तं पूयशोणितादिकं न निर्हरेत्, न वा विशोधयेत्, किन्तु ततो जायमानां वेदनां साम्यभावेन सहेतेति ॥ सू० ३५ ॥
अत्राह भाष्यकारः
भाष्यम् – जम्मंतरोवज्जियमत्थु दुक्खं, सुहं समागच्छउ वा जहिच्छं । इत्थं समाहित्थमणो गुणतो, जो सम्मभावेण सहे स साहू ||
छाया - जन्मान्तरोपार्जितमस्तु दुःखं सुखं समागच्छतु वा यथेच्छम् ।
-
इत्थं समाधिस्थमना जानन् यः साम्यभावेन सहेत स साधुः ॥ अवचूरि : - 'जम्मंतरो वज्जिय' इत्यादि । जन्मान्तरे परभवे यद् उपार्जितं दुःखमस्तु सुखं वा यथेच्छं समागच्छतु नात्र मम काऽपि चिन्ता, इत्थम् - अनेन प्रकारेण समाधिस्थमनाः स्वकृतकर्मफलं जानन् सन् यो मुनिः दुःखं सुखं वा साम्यभावेन सहेत स साधुः कथ्यते ॥
1
अयं भावः - समाधौ वर्त्तमानो भिक्षुः स्वात्मानं भूषयन्तं छेदयन्तं वा न जानीते तत्र तस्य किं महत्वम्, यत् सुखं दुःखं वा सहते ? । इत्थमोषधिप्रयोगेण भिषग्भिरचैतन्यावस्थामा - नीतस्तावत्सुखं दुःखं वा न जानाति तत्रापि तस्य सुखदुःख सहने न महत्त्वम् । महत्त्वं तु-यश्चैतन्यदशायां स्थितो न समाधौ न वा मूच्छितावस्थायां तत्र प्रतिक्षणं स्वशरीरे व्रणादिजनितमसामपि दुःखं जन्मान्तरकर्मोपार्जितमिति मत्या समभावेन सहते तस्य तदेव महत्वम् उक्तं च— faraणपरिवेगाद्वा समाधेः प्रयोगाद, यदि सहनसमर्थः स्वाङ्गदुःखस्य भोगे । हि भवति स सोढा नास्य तत्तन्महत्वं, - परिभजति समस्थस्तन्महत्त्वं महत्त्वम् ||१|| सुखं तु सर्वोऽपि जन: सानन्दो भूत्वा हसन् सहते करोक्तभावनां भावयन् दिवसं वा रात्रिं वा व्यतिक्रामतीति ॥ ३५ ॥
किन्तु -- धीरस्तत्रानन्दमजानानस्ती
શ્રી નિશીથ સૂત્ર