________________
चूर्णिभाष्यावचूरिः उ० ३ सू० ३४-३५ कायगतगण्डादीनां छेदनपूयादिनिस्सारणनि० ९५ रूपाम् , यस्याः खर्जने तत्समये सुखमिव जायते पश्चात्--दुःखाधिवयम् 'फुनसी'–ति लोकप्रसिद्धम् , 'असियं वा' अर्शो वा-गुदागतो रोगः 'बवासीर' इति लोकप्रसिद्धस्तम् , 'भगंदलं वा' भगन्दरं वा--भगन्दरो गुह्यस्थानगतरोगविशेषो लोकप्रसिद्धस्तम् । एतान् व्रणविशेषान् 'अन्नयरेण तिक्खेण सत्थजाएण' अन्यतरेण येन केनाऽपि तीक्ष्णेन--निशितेन--शस्त्रजातेन क्षुरादिना 'आच्छिदेज्ज वा' आच्छिन्द्यात् न्यूनमेकवारं वा छेदनं कुर्यात् 'विच्छिदेज्ज वा' विच्छिन्यात् अधिकमनेकवारं वा छेदनं कुर्यात् । तथा-'आच्छिदंत वा विच्छिदंतं वा साइज्जई' आच्छिन्दन्तं वा विच्छिन्दन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति । तस्याज्ञाभङ्गादिदोषा भवन्ति ॥ सू० ३४ ॥
अत्राह भाष्यकारःभाष्यम्-सरीरत्थं च गंडाइ, छिंदतो पावए जई ।
___ आणाभंगाइए दोसे, दुविहं च विराहणं ॥ छाया-शरीरस्थं च गण्डादि छिन्दन प्राप्नोति यतिः ।
___ आज्ञाभङ्गादिकान् दोषान् द्विविधं च विराधनम् ॥
अवचूरिः–'सरीरत्थं' इत्यादि । यः खलु यतिः सम्यग् यतनावान् श्रमणः-श्रमणी वा शरीरस्थं-स्वकीयशरीरे वर्तमानं गण्डादिवणं तीक्ष्णेन क्षुरकादिशस्त्रेण स्वयमेव छिन्दन् छेदयन् वा परेण आज्ञाभङ्गानवस्थामिथ्यात्वलक्षणान् दोषान् प्राप्नोति । तथा-द्विविधं-द्विप्रकारकं विराधनम् संयमविराधनमात्मविराधनं च प्राप्नोति । व्रणच्छेदनकरणे सूक्ष्मबादराद्यनेकप्रकारकजीवानां विराधनं सम्भवति । तथा-क्षुरकादिशस्त्रेण व्रणादिच्छेदने आत्मवधस्याऽपि संभवेनात्मविराधना चेति ॥ सू० ३४ ॥
सूत्रम्-जे भिक्खु अप्पणो कार्यसि गंडं वा पिलगंवा अरइयं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणं आच्छिदित्ता-विच्छिदित्ता, पूयं वा सोणियं वा, णीहरेज्ज वा विसोहेज्ज वा, णीहरेतं वा विसोहेंतं वा साइज्जइ । सू० ३५॥
छाया-यो भिक्षुः आत्मनः काये गण्डं वा पिलकं वा अरतिका बा भगन्दरं बा अन्यतरेण तीक्ष्णेन शस्त्रजातेन आच्छिद्य विच्छिद्य पूर्व वा शोणितं बा निहरेद्धा विशो. धयेद्वा, निहरन्तं वा विशोधयन्तं वा स्वदते ॥ सू० ३५ ॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो कायंसि' आत्मनः काये स्थितम् 'गंडं वा' गण्डामित्रणम् , 'पिलगं वा' पिलकं वा 'अरइयं वा' अरतिकां 'भगंदलं वा'
શ્રી નિશીથ સૂત્ર