________________
निशीथसूत्रे अत्राह भाष्यकार:भाष्यम्-वणं च दुविहं णेज्ज, साभावियमथेयरं ।
साभावियं देहजाय, सत्थाइजमथेयरं ॥ छाया-व्रणं च द्विविधं ज्ञेयं स्वाभाविकमथेतरत् ।
स्वाभाविकं देहजातं शस्त्रादिजमथेतरत् ॥ अवचूरिः-'वणं च' इत्यादि । शरीरसंबन्धि व्रणं द्विविधं-द्विप्रकारकं भवति। तत्रैक स्वाभाविकं-बाह्यकारणरहितं सत्--जायमानम् । अथेतरत्-इतोऽत्यत् द्वितीयम् इति ज्ञेयम् । तत्रस्वाभाविकं देहस्थितदोषतो जायमानम् आन्तरिकदोषमूलकमित्यर्थः, कुष्ठ-(कोढ)-दद्रु-(दाद) पामा-(खुजली)-इति लोकप्रसिद्ध गण्डमालादिकं च । अथेतरत्-इतो द्वितीयं शस्त्रादिजातमागन्तुकम् , आदिपदात्-खड्ग-कण्टक-स्थाणु-प्रभृतिवस्तुजातसंबाधाजनितानां संग्रहः । एतेषां वणानां मध्यादन्यतममपि व्रणं एकवारमनेकवारं वाऽऽमार्जनादिकं करोति स प्रायश्चित्तभाग भवति, तस्याज्ञाभङ्गादयो दोषा भवन्ति । अत्र गुरोरुपदेशो यथा
"न रोदनं हन्त ! पितर्न मातरालप्य ताडयः शिरसः प्रदेशः । प्रसन्नचित्तेन तदीयतीव्र-संवेदनायाः सहनं क्रियेत" ॥१॥
प्रसन्नमनसा रोगसंजाततीवसंवेदनायाः सहनमेव कार्यम् , न तु हा पितः ! हा मातः ! इति मुहुर्मुहुरालप्य रोदनं कार्यम्, न वा शिरसो मस्तकस्य प्रदेशो भागस्ताडनीयः । जिनकल्पिकपरकमिदं सूत्रम् , स्थविरकल्पिकस्य तु कारणवशात् व्रणस्य आमार्जनप्रमार्जनादिकं निरवद्यतया कर्तुं कल्पते ॥ सू० २८-३३॥
सूत्रम्--जे भिक्खू अप्पणो कार्यसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा, अन्नयरेण तिक्खेण सत्थजाएण आच्छिदज्ज वा विच्छिदेज्ज वा, आच्छिदंतं वा विच्छिदंतं वा साइज्जइ ॥ सू०३४॥
छाया-यो भिक्षुः आत्मनः काये गण्डं वा पिलकं वा अरतिकां वा अर्शो वा भग न्दरं वा अन्यतरेण तीक्ष्णेन शस्त्रजातन, आछिन्द्याह्ना विच्छिन्द्याद्वा आच्छिन्दन्तं वा विच्छिन्दन्तं वा स्वदते ॥ सू० ३४॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो कायंसि' आत्मनः काये-स्वशरीरे 'गंडं वा' गण्डं वा तत्र-गण्डो नाम य उच्चप्रदेशात् नीचप्रदेशं गच्छति स व्रणः गण्डमाला-कण्ठमालेति लोकप्रसिद्धः, तम् , तथा--पिलकं वा पादत्रणम् , 'अरइयं वा' अरतिकां वा-यस्या वेदनया मनसि अरतिरुत्पद्यते, शरीरे रक्तविकारेण जायमानलघुवणपुञ्ज
શ્રી નિશીથ સૂત્ર