________________
निशीथसूत्रे
__ छाया-यो भिक्षुः आत्मनः पादौ तैलेन वा घृतेन वा नवनीतेन वा वसया वा म्रक्षयेद्धा-अभ्यञ्जयेद्वा म्रक्षयन्तं वा अभ्यञ्जयन्तं वा स्वदते ॥ सू० १८ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो पाए' आत्मनःस्वस्य चरणौ, 'तेल्लेण वा' तैलेन-तिलतैलेन सर्षपादितैलेन वा, 'घएण वा' घृतेन-गोमहिध्यादीनाम् ‘णवणीएण वा' नवनीतेन 'मक्खन' इति प्रसिद्धेन, 'वसाए वा वसया 'चर्बी-ति लोकप्रसिद्धया, चिक्कणपदार्थविशेषेणेत्यर्थः, पूर्वोक्तवस्तुविशेषैः स्वकीयौ चरणौ 'मक्खेज्ज वा' म्रक्षयेत्-एकवारं मर्दयेत् 'भिलिंगेज्ज वा' अभ्यञ्जयेद्वा-पुनः पुनः स्तोकं-स्मोकं तैलादिना मर्दयेत् । तथा--'मक्खेंतं वा भिलिंगेंतं वा साइज्जई' म्रक्षयन्तं वा अभ्यञ्जयन्तं वा स्वदते । यो हि भिक्षुः स्वकोयचरणौ-एकवारमनेकवारं वा तैलादिनाऽभ्यञ्जयति, यश्च तमनुमोदते सोऽसौ प्रायश्चित्तभाग भवति, भवन्ति च तस्य आज्ञाभङ्गानवस्थामिथ्यात्वसंयमात्मविराधनादयो दोषाः । तस्मात्कारणाद् भिक्षुणा कदापि तैलादिनाऽभ्यञ्जनं न कर्त्तव्यम् , न च कुर्वतो वाऽनुमोदनं करणीयमिति ।। सू० १८ ॥
सूत्रम्-जे भिक्खू अप्पणो पाए लोद्धेण वा कक्केण वा चुण्णेण वा वण्णेण वा पउमचुण्णेण वा उल्लालेज्ज वा उन्वटेज्ज वा, उल्लोलंतं वा उव्वदंतं वा साइज्जइ ।। सू० १९॥
छाया-यो भिक्षुः आत्मनः पादौ लोधेण वा कल्केन वा चूर्णेन वा वर्णेन वा पद्मचूर्णेन वा उल्लोलयेद्वा उद्वर्त्तयेद्वा, उल्लोलयन्तं वा उद्वर्तयन्तं वा स्वदते ।। सू०१९।।।
चूर्णी-'जे भिक्ख' इत्यादि । 'जे भिक्ख' यो भिक्षुः 'अप्पणो पाए' आत्मनः स्वस्य पादौ-चरणौ, 'लोद्रेण वा' लोध्रेण-लोध्रद्रव्येण 'कक्केण वा कल्केनाऽनेकद्रव्यमिश्रितद्रव्यविशेषेण वा, 'चुण्णेण वा' चूर्णेन-पिष्टसुगन्धिद्रव्यविशेषेण 'वण्णेण वा' वर्णेनाऽबीरादिद्रव्यविशेषेण, 'पउमचुण्णेण वा' पद्मचूर्णेन-सुरभिगन्धद्रव्यविशेषेण 'उल्लोलेज्ज वा' उल्लोलयेद्वा- एकवारं मर्दयेत् 'उबटेज वा' उद्वर्तयेद्वा अनेकवारं मर्दयेत् 'उल्लोलंतं वा उव्वदृतं वा साइजइ' उल्लोलयन्तं वा उद्वर्तयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० १९॥
सूत्रम्-जे भिक्खू अप्पणो पाए सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोवेज्ज वा उच्छोलेंतं वा पधोतं वा साइज्जइ ॥ सू० २०॥
શ્રી નિશીથ સૂત્ર