________________
चूर्णिभाष्यावचूरिः उ०३सू०२०-२१ स्वपादयोरचित्तशीतोष्णजलेनोच्छोलनादिफूत्कारादिनि० ९१
छाया-यो भिक्षुः आत्मनः पादौ शीतोदकबिकटेन वा उष्णोदकविकटेन वा उच्छोलयेद्वा प्रधावयेद्वा उच्छोलयन्तं वा प्रधावयन्त वा स्वदते ॥सू० २०॥
चूर्णी—'जे भिक्ख' इत्यादि । 'जे भिक्खु' यो भिक्षुः 'अप्पणो पाए' आत्मनः पादौ 'सीओदगवियडेण वा' शीतोदकविकटेन वा, तत्र शीतं च तदुदकं शीतोदकं तच्च विकठम्अचित्तं तण्डुलधावनादिजलं, तेन 'उसिणोदगवियडेण वा' उष्णोदकावकटेन वा-उष्णं तदुदकम् , कथंभूतम् !-विकटम् , तेन-अचित्तोष्णोदकेन 'उच्छोलेज्ज वा' उच्छोलयेत्-एकवारं प्रक्षालयेत् 'पधोएज्ज वा' प्रधावयेत्- वारं वारं प्रक्षालयेत् । तथा 'उच्छोलेंतं वा पधोवेंतं वा साइज्जई' उच्छोलयन्तं वा प्रधावयन्तं वा स्वदते । यो हि भिक्षुरात्मनश्चरणौ शीतजलेनोष्णजलेन वाएकवारमनेकवारं वा प्रक्षालयति तं योऽनुमोदते वा स प्रायश्चित्तभाग् भवति, तस्याज्ञाभङ्गादयो दोषा भवन्ति ॥ सू० २० ॥
सूत्रम्-जे भिक्खू अप्पणा पाए फुमेज्जा वा रएज्ज वा, फुमतं वा रएंतं वा साइज्जइ ॥ सू० २१॥
छाया-यो भिक्षुः आत्मनः पादौ फूत्कारयेद्वा-रजयेद्वा, फूत्कारयन्तं वा रजयन्तं वा स्वदते ॥सू०२२॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः पादौ पूर्व मलतकादिना लिप्त्वा पश्चात्तदाताशोषणार्थ फूल्करोतीति फूकरणविषकं रञ्जनविषयकं चेदं सूत्रम् , ततो यो भिक्षुः 'अप्पणो पाए' आत्मनः पादौ-चरणौ 'फुमेज्ज वा' देशी शब्दोऽयम् , मुखादिवायुना फूत्कुर्यात् 'रएज्ज वा' रञ्जयेद्वा अलक्तकादिरञ्जनद्रव्येण रब्जयेत् । तथा-'फुमंतं वा रएंतं वा साइज्जइ' फूत्कारयुक्तौ अलक्ककादिरागरञ्जितौ च कुर्वन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २१॥
अत्राह भाष्यकारःभाष्यम्-संबाहणाइ कुव्वंतो, समणो जिणसासणे ।
आणाभंगाइदोसे य, पावेई नेत्थ संसओ ॥ छाया-संबाहनादि कुर्वाणः श्रमणो जिनशासने ।
आज्ञाभङ्गादिदोषांश्च प्राप्नोति नाऽत्र संशयः ॥ अवचूरिः-'संवाहणाइ'- इत्यादि । तत्र-संवाहनं चरणमर्दनं सप्तदशसूत्रकथितम् १, तैलादिनाऽऽत्मनश्चरणमर्दनादिकमष्टादशसूत्रकथितम् २, लोध्रादिनोल्लोलनोद्वर्त्तनमेकोनविंशतिसूत्रकथितम् ३, शीतोदकविकटादिना चरणप्रक्षालनं विंशतिसूत्रकथितद् ४, तथा- मुखादिवायुना चरणयोः
શ્રી નિશીથ સૂત્ર