________________
चूर्णिभाष्यावचूरिः उ०३ सू० १६-१९ स्वपादयोः संवाहन-म्रक्षणोल्लोलनादिनिषेधः ८९ भिक्षाकरणेन प्रतिनिवृत्तः, यद्वा-संज्ञाभूमित आगतः, विहारभूमित आगतः, स्वाध्यायं कृत्वा समागतः, यद्वा-प्रामान्तराद् गणकार्यं कृत्वा प्रत्यागतः ।
एतेषु कार्येषु साधुश्चरणौ प्रमार्जयति । एतत् प्रमार्जनमाचीर्णम् , एतद्विपरीतमनाचीर्ण प्रमार्जनमिति कथ्यते । तत्राऽनाचीर्ण चरणप्रमार्जनं कुर्वन् श्रमणः आज्ञाभङ्गादीन् दोपान् लभते । तत्र संयमविराधनेत्थम्-रजोहरणेन येन केनचिदन्येनापि साधनेन चरणप्रमार्जने वायवः संघट्टिता भवन्तीति वायुकायिकजीवानां विराधनं भवति ।
तथा अन्येऽपि वायुकायिकेषु समुड्डीयमाना मशकादयो जीवा बादराश्च पतङ्गादयः संघदृनेन विराधिता भवेयुः, बकुशदोषः, ब्रह्मचर्याऽगुप्तिश्च यस्मात् पादप्रमार्जने संयमविघातः अनेकविधप्राणानां विराधनात् , तस्मात्कारणात् साधुभिरनाचीर्णं चरणप्रमार्जनं न कथमपि कर्त्तव्यम् ।। सू० १६ ॥
सूत्रम्--जे भिक्खू अप्पणो पाए संवाहेज्ज वा पलिमद्देज्ज वा संवाहेंतं वा पलिमहेंतं वा साइज्जइ ॥ सू० १७॥ ___छाया-यो भिक्षुः आत्मनः पादौ संवाहयेद्वा परिमर्दयेद्वा संवाहयन्तं वा परिमर्दयन्तं वा स्वदते ॥ सू० १७॥
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो पाए' आत्मनः स्वस्य पादौ-चरणा 'संवाहेज्ज वा' संवाहयेत्-एकवारं चरणौ संवाहयेत्-निष्पीडयेत् 'पगचंपी' ति भाषाप्रसिद्ध कारयेत् 'पलिमद्देज्ज वा परिमर्दयेद्वा वारं वारं चरणयोः संवाहनं कारयेत् । 'संबाहेंतं वा पलिमदेंतं वा' संवाहयन्तं परिमर्दयन्तं वा, तत्र-संवाहनं चरणादिनिष्पीडनम् , तत् संवाहनं चतुर्विधम्-अस्थिसुखकरम् १, मांससुखकरम् २, रोमसुखकरम् ३, त्वक्सुखकरम् ४ । एवं संवाहयन्तं वा परिमर्दयन्तं वाऽन्यं 'साइज्जई' स्वदते-यः श्रमणः स्वयं चरणयोः संवाहनं परिमर्दनं वा कारयति कारयन्तं वा श्रमणान्तरं अनुमोदते स प्रायश्चित्तभाग् भवति । तथा-आज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनात्मविराधनादिदोषान् लभते तस्माच्चरणयोः संवाहनं-परिमर्दनं वा न स्वयं कारयेत् न वा कारयन्तमन्यं श्रमणमनुमोदयेत् ॥ सू० १७ ॥
सूत्रम्-जे भिक्खू अप्पणो पाए तेल्लेण वा घएण वा णवणीएण वा वसाए वा मक्खेज्ज वा भिलिंगेज्ज वा मक्वंतं वा भिलिंगेतं वा साइज्जइ ॥ सू० १०॥
શ્રી નિશીથ સૂત્ર