________________
निशीथसूत्रे पातः प्रक्षेपः, तस्य प्रतिज्ञया मध्यस्थभावेन तद्ग्रहणबुद्धया भिक्षाग्रहणार्थमित्यर्थः 'अणुप्पविद्वे समाणे' अनुप्रविष्टः सन् भिक्षाग्रहणाय गाथापतिगृहं गतः सन् 'परं तिघरंतराओ' परमधिकं त्रिगृहान्तरात् , तत्र-त्रयाणां गृहाणां समाहारस्त्रिगृहम् त्रिगृहमेवाऽन्तरं व्यवधानमिति त्रिगृ. हान्तरम् गृहत्रयात्परत इत्यर्थः, प्रथमगृहादरभ्य तृतीयगृहान्तराल एव, न तु-चतुर्थादिगृहे भिक्षानियमः । ततः परं यदि चतुर्थादिगृहात् 'असणं वा' अशनम् 'पाणं वा' पानम् 'खाइमं वा' खाद्यम् 'साइमं वा' स्वाद्यम् 'अभिहडं' अभिहृतम्-आभिमुख्येनाहृतम् आनीतम् , तत् 'आहट्टु दिज्जमाण' आहृत्य गृहीत्वा दीयमानमशनादिकं चतुर्विधं पडिग्गाहेई' प्रतिगृह्णाति । 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभार भवति ॥ सू० १५ ॥
सूत्रम्-जे भिक्खू अप्पणो पाए आमज्जेज्ज वा पमज्जेज्ज वा आमज्जंतं वा पमज्जंतं वा साइज्जइ ॥ सू० १६॥
छाया-यो भिक्षुः आत्मनः पादौ आमार्जयेद्वा प्रमार्जयेद्वा आमार्जयन्तं व प्रमार्जयन्तं वा स्वदते ॥ सू० १६॥
चूर्णी-जे भिवखू' इत्यादि। 'जे भिक्खू' यो भिक्षुः 'अप्पणो पाए' आत्मनः पादौस्वचरणौ 'आमज्जेज्ज वा' आमार्जयेद्वा-मलनिवारणार्थ शोभादिसंपादनार्थ वा येन केनाऽपि द्रब्येण सकृत्प्रमार्जनं कुर्यात् 'षमज्जेज्ज वा' प्रमार्जयेद्वा पुनः पुनः प्रमार्जनं कुर्यात् । लथा'आमज्जंतं वा पमज्जंतं वा' आमार्जयन्तं वा प्रमार्जयन्तं वा 'साइज्जई' स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० १६ ॥
अत्राह भाष्यकारःभाष्यम्-पमज्जणं च दुविहं, आइण्णाइपभेयओ।
अणाइण्णं सेवमाणे, आणाभंगाइ पावइ ॥ छाया-प्रमार्जनं च द्विविध-माचीर्णादिप्रमेदतः ।
अनाचीर्ण सेवमान आज्ञाभङ्गादिकं प्राप्नोति ॥ अवचूरि:-'पमज्जणं'-इत्यादि। सूत्रे-चरणप्रमार्जने साधूनां दोषमुक्तवान् , तत्रप्रमार्जनं द्विविध द्विप्रकारकं भवति आचीर्णादिप्रभेदतः-आचीर्णाऽनाचीर्णभेदात् । तत्र-- साधुभिराचर्यमाणं चरणप्रमार्जनम्-आचीर्णप्रमार्जनम् , एतद्विपरीतमनाचीणं भवति । तत्राssचीर्णं प्रमार्जनमनेकप्रकारकं भवति तद्यथा--संसक्तौ चरणौ प्रमार्जयितव्यौ, मार्गे वा चलतः साधोर्यदि धूल्यादिभिश्चरणौ धूसरितौ भवेतां तदा प्रमार्जनीयौ । अस्थण्डिलात् स्थण्डिले गच्छतः पङ्किलभूमौ वा गच्छतो यदि पङ्केन चरणौ लिप्तौ तदा प्रमार्जनीयौ ।
શ્રી નિશીથ સૂત્ર