________________
चूर्णिभाष्यावचूरिः उ० ३ सू० ८-९
निषेधानन्तरं पुनरनुवर्त्य याचन निषेधः ८३ वसहेसु वा' पर्यावसथेषु वा परिव्राजकावसथेषु 'कोऊहलडियाए पडियागयं समाणं' कौतूहलप्रतिज्ञया प्रत्यागतां सतीम्-कौतुकार्थ दर्शनार्थं संशयादिच्छेदनार्थं धर्मश्रवणार्थं वा समागताम् 'अण्णउत्थिणि वा गारत्थणि वा' अन्ययूथिकीं गृहस्थिनीं वा 'असणं वा पाणं वा खाइमं वा साइमं वा' अशनादिचतुर्विधाहारम् 'ओभासिय - ओभासिय' अवभाष्याऽवभाष्य उच्चैः सम्बोधनं कृत्वा 'जायइ' याचते 'जायंत वा साइज्जइ' याचमानं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ७ ॥
सूत्रम् — जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गाहा - वइकुलेसु वा परियावसहेसु वा कोऊहलपडियाए पडियागया समाणा अण्णउत्थिणीओ वा गारत्थिणीओ वा, असणं वा पाणं वा खाइमं वा साइमं वा ओभासिय- ओभासिय जायइ, जायंतं वा साइज्जइ ॥ सू० ८||
|
छाया— यो भिक्षुः आगन्वागारेषु वा आरामागारेषु वा गाथापतिकुलेषु वा पर्यावसथेषु वा कौतूहलप्रतिज्ञया प्रत्यागताः सतीः अन्ययूथिकीर्वा गार्हस्थिकीर्वा अशनं वा पान वा खाद्य वा स्वाद्यं वा अवभाष्याऽवभाष्य याचते याचमानं बा स्वदते ॥८॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'आगंतागारेसु वा' आगन्त्रागारेषु 'आरामागारेसु वा' आरामागारेषु 'गाहावइकुलेसु वा' गाथापतिकुलेषु 'परियावसहेसु वा' पर्यावसथेषु-परिव्राजकावसथेषु 'कोहलपडियाए' कौतूहलप्रतिज्ञया 'पडियागया समाणा' प्रत्यागताः सतीः 'अन्नउत्थिणीओ वा' अन्ययूथिकोर्वा 'गारस्थिणीओ वा' गार्हस्थिकोर्वा 'असणं वा ' अशनं वा 'पाणं वा' पानं वा 'खाइमं वा' खायं वा 'साइमं वा' स्वाद्यं वा, 'ओभासिय- ओभासिय' अवभाष्यावभाष्य उच्चस्वरैः उद्घोष्य परतीर्थिक स्त्रियो गृहस्थस्त्रियो वा 'जाय' याचते 'जायंत वा साइज्जइ' याचमानं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ।। सू० ८ ॥
अत्राह भाष्यकारः-
भाष्यम् - पुरिसाणं गमो बुत्तो, पंचमे छट्टगे जहा । सत्तममत्तेसु, इत्थीणेगपुहुत्तओ ||
छाया - पुरुषाणां गमः प्रोक्तः पञ्चमे षष्ठके यथा । सप्तमाष्टमसूत्रयोः स्त्रीणामेकपृथक्त्वतः ॥
अवचूरि : - 'पुरिसाणं' - इत्यादि । यथा येन प्रकारेण पञ्चमे षष्ठे वा सूत्रे पुरुषाणामागन्तुकादीनां धर्मशालादौ स्थितानामन्ययूथिकानां गृहस्थानां वा एकस्य बहूनां वा समी
શ્રી નિશીથ સૂત્ર