________________
निशीथसूत्रे पेऽवभाष्य याचनाकरणे यो गमः-प्रकारः प्रोक्तः स एव गमः सप्तमेऽष्टमे च सूत्रेऽन्ययूथिकादिस्त्रीणां एकत्वपृथक्त्वत इत्येकवचन-बहुवचनत एकस्याः स्त्रियाः, बहीनां स्त्रीणां वा पुरतोऽवभाष्य याचनाकरणे स एव प्रकारो ज्ञातव्यः । पंचमं-षष्ठं च सूत्रं पुंविषयकम् , सप्तममष्टमं तु स्त्रीविषयकम् । एतावानेव भेदः । तत्रापि यथा पञ्चमसूत्रमेकपुरुषविषयकम् , यथा वा-षष्ठसूत्रं बहुपुरुषविषयकम् तथैव-सप्तमसूत्रमेकस्त्रीविषयकम् , अष्टमसूत्रं त्वनेकस्त्रीविषयकम् । अन्यत्सर्वं समानम् ॥ सू० ८॥
सूत्रम्-जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा अण्णउत्थिएण वा गारथिएण वा असणं वा पाणं वा खाइमं वा साइमं वा अभिहडं आहटु दिज्जमाणं पडिसेहेत्ता तमेव अणुवत्तिय-अणुवत्तिय परिवेढिय परिवेढिय-परिजविय-परिजविय ओभासिय-ओभासिय जायइ, जायंतं वा साइज्जइ ॥सू ९॥
छाया-यो भिक्षुः आगन्त्रागारेषु वा आरामागारेषु वा गाथापतिकुलेषु वा पर्यावसथेषु वा-अन्ययूथिकेन वा गार्हस्थिकेन वा, अशनं वा पानं वा खाद्य वा स्वाद्य वा अभिहतम् (पुर आनीतम्) आहृत्य दीयमानं प्रतिषेध्य, तमेवाऽनुवांनुवर्त्य परिवेष्टय परिवेष्टय परिजल्प्य-परिजल्प्य, अवभाष्याऽवभाष्य याचते, याचमानं वा स्वदते ।९।
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'आगंतागारेसु वा' आगन्त्रागारेषु 'आरामागारेसु वा' आरामागारेषु ‘गाहावइकुलेसु वा' गाथापतिकुलेषु ‘परियावहेसु वा' पर्यावसथेषु वा परिव्राजकावसथेषु 'अण्णउत्थिएण वा' अन्ययूथिकेन वा-परतीर्थिकेन 'गारथिएण वा' गार्हस्थिकेन वा, अशनं वा पानं वा खाद्य वा स्वाद्य वा 'अभिहडं' अभिहृतम् साध्वर्थं संमुखमानीतं, तत् 'आहटु' आहृत्य-गृहीत्वा 'दिज्जमाणं' दीयमानमशनादिकम् 'पडिसेहेत्ता' प्रतिषिध्य, पूर्वमभिमुखीभूय ददतं निषिध्य-ग्रहणार्थ निषेधं कृत्वा पुनः-तमेव 'अणुवत्तिय-अणुवत्तिय' तमेव दातारमनुवानुवर्त्य पञ्च-सप्त-पदगमनानन्तरमनुवर्तन कृत्वा पृष्ठतो गत्वा 'परिवेढिय-परिवेढिय' परिवेष्टय-परिवेष्टय पुरतः पृष्ठतः पार्श्वतो वा स्थित्वा । 'परिजविय-परिजविय' परिजल्प्य परिजल्प्य 'वया मदर्थमिदमशनादिकमानीतम् परिश्रमस्तव निरर्थको मा भवतु तवाऽशनादिकं प्रहिण्यामी'-येवंप्रकारेणोक्त्वा 'ओभासिय-ओभासिय अवभाष्याऽवभाष्य 'जायइ' याचते, 'जायतं वा साइज्जइ' याचमानं वा एवंविधमन्यं स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवतीति ॥ सू० ९ ॥ भाष्यम्-आहटु दिज्जमाणं जं, पडिसेहिय पुबओ ।
पच्छा तं अणुवट्टित्ता, जायए दोसमावहे ॥
શ્રી નિશીથ સૂત્ર