SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० ३ सू० ६-७ प्रत्यागतान्ययूथिकादिकमवभाष्ययाचननिषेधः ८१ __ छाया-यो भिक्षुः आगन्त्रागारेषु वा आरामागारेषु वा गाथापतिकुलेषु वा पर्यावसथेषु वा अन्ययूथिकं वा गार्हस्थिकं वा, कौतूहल प्रतिज्ञया प्रत्यागतं सन्तं अशनं वा पानं वा खाद्य वा स्वाद्य वा अवभाष्याऽवभाष्य याचते, याचमानं वा स्वदते ॥सू०५॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'आगंतागारेसु वा' आगन्त्रागारेषु वा 'आरामागारेसु वा' आरामागारेषु वा 'गाहावइकुलेसु वा' गाथापतिकुलेषु वा 'परियावसहेसु वा' पर्यावसथेषु वा 'अण्णउत्थियं वा' अन्ययूथिक-दर्शनाऽन्तरीयं यं कमप्येकम् , 'गारत्थियं वा' गार्हस्थिकं गृहस्थं वा 'कोउहलपडियाए पडियागय समाणं' कौतूहलप्रतिज्ञया प्रत्यागतं सन्तम् कौतूहलं क्रीडादिकं-धर्मपृच्छा वा, तत्कौतूहलप्रतिज्ञया प्रत्यागतमागतं सन्तं तिष्ठन्तम् 'अण्णउत्थियं' अन्ययूथिकम् 'गारत्थियं वा गार्हस्थिकं वा उपेत्य, तत्सकाशात्-'असणं वा' अशनं वा, पाणं वा' पानं वा खाइमं वा' खाद्य वा, 'साइमं बा' स्वाद्यं वा यदि-'ओभासिय-ओभासिय' अवभाष्याऽवभाष्य उच्चैरुच्चार्य्य तिष्ठन्तमागन्तुकं परतीथिकं श्रावकं वा-'भो भोः मह्यं साधवेऽन्नपानादिकं देहि' इत्थम् 'जायई' याचते, 'जायंत वा साइज्जई' याचमानं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ५ ॥ अत्राह भाष्यकार:भाष्यम्-आगंतुगाइगेहेसु, कोउगह उवट्ठियं । ओभासिय जायमाणो, समणो, दोसभा हवे ॥ छाया-आगन्तुकादिगेहेषु कौतुकार्थमुपस्थितम् । अवभाष्य याचमानः श्रमणो दोषभाग् भवेत् ॥ अवचूरिः-'आगंतुगाइ०' इत्यादि। यो भिक्षुः आगन्तुकादिगेहेषु-आरामागारेषु वा गाथापतिगेहेषु वा कौतुकार्थं साधोरागमनात् पूर्वमागत्य समुपस्थितं वर्तमानं परतीर्थिकं गृहस्थं वा एकमपि आभाष्योच्चस्वरेण शब्दं कृत्वा-अशन-पान-खाद्य-स्वाद्यादिकं याचते स श्रमणः दोषभाग् भवेत् । कथमेते परतीथिकाः गृहस्था वा समागत्य स्थिता भवन्ति ? इति चेत् शृणु-केचित्--यथाभावेन, केचन कौतुकेन, केचन साधूनां दर्शनार्थम् , केचन-स्वकीयसंशयनिराकरणार्थम् , केचन-श्रावकधर्म श्रमणधर्म वा श्रोतुम्-आगच्छन्ति । एषु समुपस्थितेषु-एकतमादपिअवभाष्याऽशनादिकं याचते तस्यैते भद्रप्रान्तदोषा भवन्ति । तत्र भद्रदोषः-स्वस्य भद्रत्वेन उद्गमादिदोषदुष्टाहारग्रहणरूपः । प्रान्तदोषः अदत्तादानविषयकलोकगर्दारूप इति । तत्र यदि अवभाष्य कृतेपि याचने न लभ्यते तदा साधोरपमानं भवति । कथयन्ति लोकाःक्षुद्राः साधवो न लभन्ते । अदत्ते दातुरपमानं कृपणोऽयमिति ॥सू० ५ ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy