SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ८० निशीथसूत्रे प्रकारेण तारस्वरेण कथयित्वा कथयित्वा 'जायई' याचते 'जायंतं वा साइज्जई' याचमानं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति । इदं सूत्रं स्त्रीजातीयविषयकमेकवचनपरकं प्रायश्चित्तपरकं च ॥ सू० ३ ॥ अथ बहुवचनपरकं स्त्रीसूत्रमाह सूत्रम्-जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा अण्णउत्थिणीओ वा गारथिणीओ वा असणं वा पाणं वा खाइमं वा साइमं वा ओभासिय-आभासिय जायइ, जायंत वा साइज्जइ ॥ सू० ४॥ छाया-यो भिक्षुः आगन्त्रागारेषु वा आरामागारेषु वा गाथापतिकुलेषु वा पर्यावसथेषु वा अन्ययूथिकीर्वा गार्हस्थिकीर्वा, अशनं वा पानं वा खाद्य वा स्वाद्य वा अवभाष्य-अवभाष्य याचते याचमानं वा स्वदते ॥ सू०४॥ चूर्णी-व्याख्यानं पूर्ववत् । इदं स्त्रीसूत्रं बहुवचनपरकमित्येव भेदः ॥सू० ४॥ अत्राह भाष्यकार:भाष्यम् – पढमे जो गमो वुत्तो, सो चेव य बितीयगे। तइएवि चउत्थेवि, भेओ एगबहुत्तगो । छाया-प्रथमे यो गमः प्रोक्तः स एव च द्वितीयके । तृतीयेऽपि चतुर्थेऽपि मेद एकबहुत्वकः ॥ अवचूरिः—'पढमे'-इत्यादि । प्रथमे-तृतीयोदेशकस्य प्रथमसूत्रे यो गमः-प्रकारः प्रायश्चित्तादीनामाज्ञाभङ्गादिदोषाणां कथितः स एव गमो द्वितीयके, तृतीयोद्देशकस्य द्वितीये पुरुषबहुत्वसूत्रेऽपि ज्ञातव्यः । एवमेव तृतीयेऽपि तृतीयोदेशकस्य तृतीये स्त्रीसूत्रेऽपि स एव गम एकवचनात्मको ज्ञातव्यः । तथा-चमुर्थेऽपि तृतीयोदेशकस्य चमुर्थ सूत्रे स्त्रीबहुत्वविषयको गमो ज्ञातव्यः, केवलं भेदो नानात्वं एकत्वबहुत्वयोः । अर्थात् प्रथमं द्वितीयं च सूत्रं पुरुषमाश्रित्यैकवचनबहुवचनविषयकम् , तृतीयं-चतुर्थ च सूत्रं स्त्रियमाश्रित्य एकवचनबहुवचनविषयकं ज्ञातव्यम् ॥ सू० ४ ॥ सूत्रम्-जे भिक्खू आगंतागारेसु वा, आरामागारेसुवा गाहावइकुलेसु वा परियावसहेसु वा अण्णउत्थियं वा, गारत्थियं वा, कोउहलपडियाए पडियागयं समाणं असणं वा पाणं वा, खाइमं वा साइमं वा आभासिय-ओभासिय जायइ जायंतं वा साइज्जइ ॥ सू० ५॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy