________________
चूर्णिभाष्यावचूरिः उ० ३ सू० १-५ आगन्त्रागारादिषुगत्वाऽवभाष्यावभाष्ययाचननि० ७९
छाया-यो भिक्षुः आगन्त्रागारेषु वा आरामागारेषु वा गाथापतिकुलेषु वा पर्यावसथेषु वा, अन्ययथिकान् वा गार्हस्थिकान् वा, अशनं वा पानं वा खाद्यं वा खाद्य वा, अवभाष्याऽवभाष्य याचते याचमानं वा स्वदते ॥ सू० २ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः, 'आगंतागारेसु वा' आगन्त्रागारेषु धर्मशालादिषु 'आरामागारेसु वा' आरामागारेषु वा 'गहावइकुलेसु वा' गाथापतिकुलेषु वा 'परियावसहेसु वा' पर्यावसथेषु वा, एतेषु पूर्वप्रदर्शितप्रकारेषु स्थानेषु ये स्थितास्तान् ‘अण्णउत्थियाओ वा' अन्ययूथिकास्तीर्थान्तरीयाः तापस-शाक्यभिक्षुकादयस्तान् वा 'गारत्थियाओ वा' गार्हस्थिका गृहस्थाः श्रावकास्तान् वा 'असणं वा पाणं वा खाइमं वा साइमं वा' अशनादिचतुविर्धाऽऽहारम् 'ओभासिय-ओभासिय जायई' अवभाष्याऽवभाष्य याचते, महता दीर्घस्वरेण याचनां करोति । आगन्त्रागारादिषु स्थितान् तीर्थान्तरीयान् श्रावकान् वा-उच्चैःस्वरेण संबोध्य तेभ्योऽशनादिकं याचते इत्यर्थः । 'जायंतं वा साइज्जइ' याचमानं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति । अत्र सूत्रे प्रथमसूत्रवद्भाष्यं ज्ञातव्यम् । एकत्र-प्रथम सूत्रे दायकपदे एकवचनम् , अपरत्र-द्वितीयसूत्रे बहुवचनमित्यनयोर्भेदः ॥ सू० २ ॥
पूर्व पुरुषमधिकृत्य एकत्वबहुत्वेन सूत्रद्वयमुक्तम् , साम्प्रतं स्त्रीमधिकृत्य-एकवचन-बहुवचनाभ्या सूत्रद्वयमाह
सूत्रम्-जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसुवा, अण्णउत्थिणि वा गारथिणि वा असणं वा पाणं वा खाइमं वा साइमं वा ओभासिय-ओभासिय जायइ जायंत वा साइज्जइ ॥ सू० ३॥
- छाया-यो भिक्षुः आगन्त्रागारेषु वा आरामागारेषु वा गाथापतिकुलेषु वा पर्या' वसथेषु वा अन्ययूथिकी वा गार्हस्थिकी वा अशनं वा पानं वा खाद्यं वा स्वाद्यं वा अवभाण्याऽवभाष्य याचते याचमानं वा स्वदते ॥ सू० ३ ॥
चूर्णी- 'जे भिक्ख' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'आगंतागारेसु वा' आगन्त्रागारेषु 'आरामागारेसु वा' आरामागारेपु वा 'गाहावइछुलेसु वा' गाथापतिकुलेषु वा 'परियावसहेसु वा' पर्यावसथेषु वा 'अण्णउत्थिणि वा' अन्ययूथिकी-अन्यतीर्थिकस्त्री 'गारथिणि वा' गार्ह स्थिकी गृहस्थस्त्री वा 'असणं वा पाणं वा खाइमं वा साइमं वा' अशनादिचतुर्विधाऽहारम् , एतदशनादिकमागन्त्रागारादिस्थितानाम् अन्ययूथिकादिस्त्रीणां सकाशादित्यर्थः । यदि-'ओभासिय-ओभासिय' अवभाध्याऽवभाष्य-"साधुरहं मह्यमशनादिकं भवत्या देयम्" इत्येवं
શ્રી નિશીથ સૂત્ર