________________
७८
निशीथसूत्रे
स्तेषामावसथाः, तेषु तापसनिवासस्थानेषु वा 'अण्णउत्थियं वा गारत्थियं वा अन्ययूथिकं वा गार्हस्थिकं व गृहस्थ, 'असणं वा पाणं वा खाइम वा साइमं वा' अशनादिचतुर्विषाहारम् 'ओभासिय ओभासिय जायइ' अवभाष्याऽवभाष्य याचते, अर्थात् पूर्वोक्तधर्मशालाप्रभृतिषु स्थितमन्ययूथिकं गृहस्थं वा अवभाष्योच्चैःस्वरेण संबोध्य, यथा-"भो भोः ! त्वं मह्यमशनादिकं देहि" इति क्रमेणाऽशनपानादिकं याचते । एकवचनात्मकमिदं सूत्रम्। 'जायंतं वा साइज्जइ' याचमानं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० १॥
अत्राह भाष्यकार:भाष्यम् आगंतागाराइसु, ओभासिय जायए य जो समणो ।
____ आणाभंगाईए, दोसे पावेइ सो नियमा ॥ छाया -आगन्त्रागारादिषु अवभाष्य याचते च यः श्रमणः ।
आज्ञाभङ्गादिकांश्च दोषान् प्राप्नोति स नियमात् ॥ अवचूरिः-'आगंतागाराइसु' इत्यादि । यः श्रमणः या श्रमणी वा आगन्त्रागारादिषु, आदिपदात्-उपवनस्थितगृहेषु गाथापतिकुलेषु वा स्थितान् शाक्यभिक्षुकादीन्-अन्यदर्शनाऽनुयायिनः, श्रावकान् वा अवभाष्य तारस्वरेण "भिक्षां ददत" इति कथयित्वा, अशनं-पानं-खाद्य-स्वाधं वा याचते स आज्ञाभङ्गादिकान् आज्ञाभङ्गाऽनवस्थामिथ्यात्वात्मविराधन-संयमविराधनलक्षणान् दोषान् प्राप्नोति ।
तत्राज्ञाभङ्ग इत्थम्-नहि-एतादृश्याज्ञा तीर्थकरस्य विद्यते यदेतादृशस्थानेषु गत्वाऽनाथवत् श्रमणैर्याचितव्यमिति, ततस्तीर्थकराज्ञाप्रातिकूल्ये न याचनाकरणे भवत्येव तीर्थकराज्ञाभङ्गः । तथा यद्येकः श्रमण एवं करिष्यति, तदा तद्दृष्ट्वाऽन्योऽपि तथा करिष्यते-इति स्पष्टैवाऽनवस्था। तथा-धर्मशालादौ भिक्षाया अलाभेऽपमाने च सति साधोर्जिनवचसि-अनास्था संपयेत तेन मिध्यात्वसंभवः । एवमेव जैनभिक्षव इतस्ततो भ्रमन्ति-इति लोके जिनशासनस्याऽवहेलना भवेत्। तथातीर्थकराज्ञाभङ्गेनैव संयमविराधनम् । तथा-कदाचित्-द्वेषयुक्तो दाता विषमिश्रितां भिक्षां दद्यात् इति तादृशभिक्षाप्राप्त्या विविधरोगोत्पादनद्वारा मरणमपि संभवेदित्यात्मविराधनम् ।। सू० १॥
अथ पुरुषवाधिकृत्य बहुवचनसूत्रमाह
सूत्रम्-जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गाहावइकुलेसु वा, परियावसहेसु वा, अण्णउत्थियाओ वा गारत्थियाओ वा असणं वा पाणं वा खाइमं वा साइमं वा ओभासिय-ओभासिय जायइ जायंतं वा साइज्जइ ।। सू० २॥
શ્રી નિશીથ સૂત્ર