SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ७२ निशीथसूत्रे सूत्रम्-जे भिक्खू उउवद्धियं वा वासावासियं वा सेज्जासंथारगं उव्वरिसिज्जमाणं पेहाए न ओसारेइ न ओसारेंतं वा साइज्जइ ॥ सू० ५२॥ __ छाया-यो भिक्षु ऋतुबद्धकं वा-वर्षावासिकं वा शय्यासंस्तारक उद्वर्ण्यमाणं प्रेक्ष्य नाऽपसारयति, नाऽपसारयन्तं वा स्वदते ॥ सू० ५२ ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'उउबद्धियं वा' ऋतुबद्धकं वामार्गशीर्षाद्याषाढपर्यन्ताष्टमासात्मके काले स्वेनात्मना परेण वा गृहीतम् । 'वासावासियं वा वर्षावासिकं वा-चातुर्माससम्बन्धिकम् , उपभोगाय वर्षाकाले समानीय स्ववसतौ स्थापितम् । 'सेज्जासथारगं' शय्यासंस्तारकं पीठफलकतृणादिकमनावृतस्थाने प्रसारितं 'उच्चरिसिज्जमाणं' उद्वjमाणं वृष्टया क्लिद्यमान जलेन आर्दीभवन्तमित्यर्थः 'पेहाए' प्रेक्ष्य-दृष्ट्वा 'न ओसारइ' नाऽपसारयति-न दूरीकरोति, अनावृतप्रदेशादावृतप्रदेशे न करोति, न कारयति 'न ओसारेंतं वा साइज्जई' नाऽपसारयन्तं-नोऽन्तःकुर्वन्तं स्वदतेऽनुमोदते स प्रायश्चित्तभाग भवति ॥ सू० ॥५२॥ अत्राह भाष्यकारःभाष्यम्-वासाजलेण सित्तं, सेज्जासंथारगं च पीढाइ । नो ओसारइ जो उ, पावइ सो आणभंगाइ ॥ छाया-वर्षाजलेन सिक्तं शय्यासंस्तारकं च पीठादि । नो अपसारयति यस्तु प्राप्नोति स आज्ञाभङ्गादि ॥ अवचूरिः- 'वासाजलेणं'-इत्यादि । यो भिक्षुः ऋतुबद्धकाले वर्षाकाले वा अनावृतस्थाने प्रसारितं यत्-शय्यासंस्तारकं पीठादि-पीठफलकतृणादिकं तद्यदि वृष्टिजलेन सिक्तं सिच्यमानं वा भवेत् तत् नाऽपसारयति नो दूरीकरोति वर्षाप्रदेशात् वर्षारहितप्रदेशे-वसतेरन्तर्भागे न करोति यः स आज्ञाभङ्गादिदोषान् प्राप्नोति ॥ सू० ५२ ॥ सूत्रम्-जे भिक्खू पाडिहारियं सेज्जासंथारगं दोच्चंपि अणणुण्णवेत्ता बाहिं णीणेइ णाणेतं वा साइज्जइ ॥ सू० ५३॥ छाया-यो भिक्षुः प्रातिहारिकं शय्यासंस्तारकं द्विवारमपि-अननुज्ञाय्य बहिः निर्णयति निर्णयन्तं वा स्वदते ॥ सू० ५३ ॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'पाडिहारियं' प्रातिहारिकम् श्रावकगृहात्तस्य गृहपतेराज्ञया समानीय वसतौ स्थापितं-पुनः प्रतिज्ञातसमये प्रत्यर्पणीयम् શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy