________________
चूर्णिभाष्यावचूरिः उ० २ सू० ५०-५३ शय्यासंस्तारकस्य प्रत्यर्पणसंरक्षणादिविधिः ७१ वर्षादिकारणगौरवात् पञ्चदशरात्रपर्यन्तं व्यवहर्तुमुपभोक्तुं शक्नोति कथञ्चित् , किन्तु-परं दसरायकप्पाओ' परमधिकं दशरात्रकल्पात् यदि-'उवाइणावेई' अतिकामयति-उल्लङ्घयति 'उवाइणावंतं वा साइज्जई' अतिक्रामयन्तं वा यो यदा स्वदतेऽनुमोदते स तदा प्रायश्चित्तभाग् भवति । शय्यासंस्तारकं द्विविधं भवति-परिशाटि अपरशाटि च। तत्र-कुशतृणादिनिर्मितस्य यस्योपभोगकाले कश्चिदंशः परिशटति--नश्यति तत् परिशाटि, यस्य च वंशकाष्ठादिनिर्मितस्योपभोगकाले किञ्चिन्मात्रोऽप्यंशो न परिशटति-न नश्यति तदपरिशाटि-इति बोध्यम् । परिशाटि च साधूनां नो कल्पते यतस्तद्ग्रहणे अनेके जीववधादयो दोषाः, तेन च संयमात्मविराधना भवति । परिशटितपीठफलकादिषु शुषिरस्थितजीवानां विराधना भवति, शटितं तत् त्रुट्यति तदा आत्मविराधनाऽपि भवति । तथा--आज्ञाभङ्गानवस्थामिथ्यात्वसंयमात्मविराधनं च भवति । तीर्थकृतामाज्ञाभङ्गस्तैर्निषिद्धत्वात् , अनवस्था च-अन्यान्यकरणसंभवात् , लोके-मिथ्यात्वमपि जायते जीवविराधकवस्तूपभोगात् । संयमविराधनमित्थम्--शुषिरादिषु कुन्थुकादिसूक्ष्मजीवाः संमूच्छिता भवन्ति । तत्र परिशाटिशय्यासंस्तारकमास्तीर्य स्वपतः कुन्थुकादिजीवा विराधिता भवेयुरिति संयमविराधनम् । तथा--अन्येऽपि बहवो जीवाः पिपीलिकादयः वर्षायां शुषिरे समूञ्छिता भवन्ति, इत्येवमपि संयमविराधनम् । आत्मविराधनं चेत्थम्- वर्षायां तत्र शयने कृते सुषिरे स्थितः सर्पादिर्दशति-इत्यात्मविराधनम् , तत्र शुषिरसद्भावात् पनकः (लीलनफूलन) अपि संमूछितो भवति । एते प्राणविघातकादयो दोषाः । तथा तद्गन्धादुपधौ यूकादिजीवा भवन्ति । इत्यादयो दोषाः परिशाटिशय्यासंस्तारकग्रहणे भवन्ति ।
यस्मादेते दोषाः तस्मात्- कारणात् वर्पाकालेऽपरिशाटि शय्यासंस्तारकं ग्रहीतव्यम् । तदपि विधिपूर्वकं ग्रहणं कर्त्तव्यम् । यदा खलु पीठफलकादिकं लभ्यते--तदैवं वक्तव्यम्--भोः श्रावक ! अस्य शय्यासंस्तारकस्योपभोगानन्तरं पुनर्पयिष्यामे प्रातिहारिकं च ग्रहिष्यामि नियमतोऽमुकेन कालेनाऽपयिष्यामि । यद्येवं श्रावकः स्वीकरोति तदा ग्रहीतव्यम् । अथ यदि कदाचिदेवं न स्वी. करोति श्रात्रकः तदाऽन्यदेव संसारकादिकं मार्गयितव्यम् । यदि गृहीतं च शय्यासंस्तारकादिकं नेतुं न शक्यते तदा--छन्ने प्रदेशे स्थापयितव्यम् येन वर्षाजलेन प्लावितं न भवेत् । एवं दाता (श्रावकः) प्रष्टव्यः मदीये कार्य समाप्ते शय्यासंस्तारकं मया कस्मै-अर्पणीयम् ३ श्रावको वदति मह्यमेव दात्रेऽर्पणीयम् । तदा पुनः साधुर्वदति-यदि त्वं कदाचिद् दृष्टो न भवेः तदा कस्मै अर्पणीयम् ? श्रावको वदति--अत्रैव गृहे भवद्भिरानेतव्यम् ।
तदा वक्तव्यं साधुना--कस्मिन् स्थाने स्थापयिष्यामि ! अथ स वदेत्--अत्रैव गृहे प्रच्छन्नप्रदेशे स्थापयितव्यम् । अथवा--एवं वदेत्-यस्मात्-स्थानाद् गृहीतं तत्रैव स्थापनीयम् । एवंप्रकारेण गृहीतशय्यासंस्तारकादिविषये भणितव्यम् ॥ सू० ५१॥
શ્રી નિશીથ સૂત્ર