________________
निशीथसूत्रे
याचते, तस्याज्ञाभङ्गादिका दोषा भवन्ति । तथा - पूर्वपश्चात्संस्तुते उद्गमैषणादिदोषा भवन्ति, एवमुद्गमादिदोषाः श्रावकेऽपि भवन्ति । तथा - पूर्वपश्चात्संस्तुतेऽपि एते दोषाः- ये श्रावकस्य पूर्वपश्चात्संस्तुतास्ते परगृहेषु-अवभाषमाणा एवं कुर्युः - : - एष नित्यमस्माकमेव गृहे तिष्ठतीति कृत्वा, उद्गमादिदोषदुष्टमप्यशनादिकं करिष्यन्ति परुषादिकं च वदेयुः । यस्मादिमे दोषा भवन्ति तस्मात्सागारिकनिश्रया पूर्वपश्चात्संस्तुतस्य सागारिकस्य निश्रया वा श्रावककुलेऽवभाण्याऽवभाष्याशनादीनां याचना न कर्त्तव्या । सागारिकस्याहारादिग्रहणं प्रागेव निषिद्धं पुनरत्र सागारिकनिश्राघटकस्य सागारिकशब्दस्य कोऽर्थः ? इत्यत आह-अत्र सागारिकशब्देन सामान्यो गृहस्थो बोध्यः ॥ सू० ४९ ॥
७०
सूत्रम् -- जे भिक्खू उउवद्धियं सेज्जासंथारगं परं पज्जोवसणाओ उवाइणावेइ उवाइणावेंतं वा साइज्जइ ॥ सू० ५० ॥
छाया- – यो भिक्षुः ऋतुबद्धकं शय्यासंस्तारकं परं पर्युषणातः अतिक्रामयति अतिकामयन्तं वा स्वदते ॥ सू० ५० ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'उउबद्धियं सेज्जासंथारगं' ऋतुबद्धकम् – ऋतुबद्धकालसम्बन्धि शय्यासंस्तारकम् पीठफलकतृणादिकं, शय्या च संस्तारकश्च, अनयोः समाहारे शय्यासंस्तारकम्, तत्र - शय्या शरीरप्रमाणा, संस्तारकः सार्द्धहस्तद्वयप्रमाणः । ऋतुबद्रे - मार्गशीर्षाद्याषाढपर्यन्ताष्टमासात्मके शेषकाले गृहीतं शय्यासंस्तारकम् शेषकाले समानीतं शय्या संस्तारकं 'परं पज्जोवसणाओ' पर्युषणातः परं संवत्सरीदिनतः परम् ' उवाइणावे ' अतिक्रामयति उल्लङ्घयति यस्माद् गृहोतं तस्मै य: समर्पणकालस्तमुल्लङ्घयति, ऋतुबद्धकालगृहीतशय्यासंस्तारकं गृहस्थाय न समर्प्य पर्युषणानन्तरं तस्योपभोगं करोतीत्यर्थः, अतिक्रामयन्तं वा स्वदते स प्रायश्चित्तभाग् भवति । संवत्सरीदिनतः प्रागेव तद् भोक्तव्यम्, संवत्सरी दिने तत् तत्स्वामिने समर्पणीयमेवेति भावः । यदि तस्योषभोगकारणं स्यात् तदा तदुपभोगाय तत्स्वामिन आज्ञा पुनर्ग्रहीतव्येति विवेकः ॥ सू० ५० ॥
सूत्रम् — जे भिक्खू वासावासियं सेज्जासंथास्यं परं दसरायकप्पाओ उवाइणावेइ उवाइणावेंतं वा साइज्जइ ॥ सू० ५१ ॥
छाया -यो भिक्षुः वर्षावासिकं शय्यासंस्तारकं परं दशरात्रकल्पात् अतिक्रामयति अतिक्रामयन्तं वा स्वदते ॥ सू० ५१ ॥
चूर्णिः - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः वासावासियं' वर्षावासिकं वर्षाकाले उपभोगार्थमानीतम् तत् - 'सेज्जासंथारगं' शय्यासंस्तारकम् वर्षाकाले व्यतीतेऽपि
શ્રી નિશીથ સૂત્ર