________________
चूर्णिभाष्यावचूरिः उ०२ सू० ४९
सागारिकनिश्रयाऽवभाष्य भिक्षायाचननिषेधः ६९
विसइ' अनुप्रविशति शय्यातरमज्ञात्वा भिक्षार्थं निर्णयात्पूर्वमेव शय्यातरकुलं प्रविशति, 'अणुप्पविसंतं वा साइज्जइ' अनुप्रविशन्तमन्यं स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ||
न दोषभागी प्रभवामि तस्माज्ज्ञात्वा च पृष्ट्वाऽथ गवेषयित्वा ।
ततो विशेत् श्रावक गेहमध्यं, मर्यादितः शास्त्रविलोकनेन ॥ १ ॥ इति ॥ सू० ४१ ॥ सूत्रम् - जे भिक्खू सागारियणीसाए असणं वा पाणं वा खाइमं वा साइमं वा ओभासिय- ओभासिय जाय जायंतं वा साइज्जइ ॥ सू० ४९ ॥
छाया - यो भिक्षुः सागारिकनिश्रया - अशनं वा पानं वा खादिमं वा स्वादिमं वा - अवभाष्याऽवभाष्य याचते याचमानं वा स्वदते ॥ सू० ४९ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'सागारियणीसाए' सागारिकनिश्रया, सागारिकः - श्रावकः, तस्य निश्रा - परिचयरूपा, तथा 'अहममुकस्य वसतौ स्थितोऽस्मि' इति परिचय रूपया, अथवा स्वजनस्य कस्यचिद् गृहे शय्यातरं स्थितं दृष्ट्वा - 'अयं मे भिक्षां दापयिष्यति' तदाश्रयेण 'असणं वा पाणं वाखइमं वा साइमं वा' अशनं पानं स्वाद्यं स्वाद्यम् - अशनादिचतुर्विधाहारं 'ओभासिय- ओभासिय' अवभाष्यावभाष्य विशिष्टवचनरचनापूर्वकम् उच्चैःस्वरेण वदित्वा - वदित्वा 'जायइ' याचते याचनां करोति - कारयति । 'जायंतं वा साइज्जइ' एवं प्रकारेण याचमानमनुमोदते स प्रायश्चित्तभाग् भवतीति ॥ सू० ४९ ॥
अत्राह भाष्यकारः
भाष्यम् – सयणो सावगस्सायं, तत्थ दट्ठूण सावगं । दावेज्जा एस मे भिक्खं, - तिकट्टु सोऽवभासइ ॥
छाया
- स्वजनः श्रावकस्यायं तत्र दृष्ट्वा तु श्रावकम् । दापयेदेष मे भिक्षा मितिकृत्वाऽवभाषते ॥
यः स्वजन:
अवचूरि : - 'सयणो' - इत्यादि । श्रावकस्य प्रतिष्ठितोदार चित्तस्य आत्मीयो जनः स यत्र प्राङ्गणादौ तिष्ठति, तत्र प्राङ्गणे श्रावकं शय्यातरश्रावकं दृष्ट्वा एष मह्यमस्मात्परिजन सकाशाद् भिक्षां दापयेत् इतिकृत्वा तन्निश्रयोच्चैः स्वरेण तमेव सागारिकभवभाषते १, तव स्वजनोऽयमतस्त्वं दापय एतस्मादशनादिकम् २, यद्वा- सागारिकस्य - पूर्वपश्चात्संस्तुतस्य निश्रायां भाषते - यद्स्यैव गौरवेणायं मे भिक्षां दास्यतीति तं वाऽवभाषते ३, मम चारित्राचारसंपन्नस्य प्रभावेण वा दापय ४ । एभिश्चतुर्भिरपि प्रकारैर्यो भिक्षुरशनादिकमवभाष्य
શ્રી નિશીથ સૂત્ર