________________
चूर्णि भाष्यावचूरिः उ०२ सू०५४ ५७ शय्यासंस्तारकस्यानाज्ञा बहिर्नयना विधिप्रत्यर्पणनि० ७३ 'सेज्जासंथारगं' शय्यासंस्तारकम् यद्यन्यस्थाने नयनप्रयोजनं भवेत्तदा 'दोच्चपि' द्वितीयवारमपि 'अणणुण्णवेत्ता' अननुज्ञाप्य, स्वामिन आज्ञां विना यदि 'बाहिं णीणेइ' बहिः उपाश्रयाद्वहिरन्यस्थाने निर्णयति, अयं भावः - अशय्यातरस्य - शय्यातरस्य वा शय्यासंस्तारकं पूर्णे मासकल्पे पुनर्द्वितीयवारं स्वामिनमननुज्ञाप्य वसतेर्बहिरुपाश्रयान्तरं नयति चेत्, तथा - 'णीर्णेतवा' साइज्जइ' निर्णयन्तं यः स्वदतेऽनुमोदते, तस्य प्रायश्चित्तमिति ॥ सू० ५३ ॥
अत्राह भाष्यकारः
भाष्यम् - भिक्खू जं बाहिरं णेइ, अणणुण्णाय संथरं । आणाभंगाइया दोसा, हवंति तस्स निच्छियं ॥
छाया - भिक्षुर्यद् बहिर्नयति अननुज्ञाप्प संस्तरम् । आज्ञाभङ्गादिका दोषा भवन्ति तस्य निश्चितम् ॥
अवचूरि : - ' भिक्खू जं' इत्यादि । यो भिक्षुर्यत् संस्तरं - संस्तारकं पीठफलकादिकं एतादृशं यत् - अननुज्ञाप्य तत्स्वामिनो द्वितीयवारमाज्ञामगृहीत्वा शय्या संस्तारकं वसतेर्बहिरन्यस्थले नयति, तस्य भिक्षुकस्याऽऽज्ञाभङ्गादिका दोषा निश्चितं भवन्ति, अत्र न कोऽपि संशय इति ॥ सू० ५३ ॥
सूत्रम् - जे भिक्खू सागारियसंतियं सेज्जासंथारंगं दोच्चंपि अणगुण्णवेत्ता बाहिं णी णीर्णेतं वा साइज्जइ ॥ सू० ५४ ॥
छाया - यो भिक्षुः सागारिकसत्कं शय्यासंस्तारकं द्वितीयमपि अननुज्ञाप्य बहिनिर्णयति निर्णयन्तं वा स्वदते ।। सू० ५४ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'सागारियसंतियं' सागारिकसत्कम् - गृहस्थसंबंधि 'सेज्जासंथारगं' शय्यासंस्तारकम् यद्वसतौ वर्त्तमानं यदा तदा तत्स्वामिना गृहादागत्योपभुज्यमानम् ऋतुबद्धकाले वर्षाकाले वा कञ्चित्कालमुपभोगाय याचितवान् तद्यदि - उपाश्रयान्तरं प्रस्थातुकामः पुनर्द्वितीय वारमपि शय्यासंस्तारकस्वामिनमनिवेद्य 'बाहिं णी णे' बहिद्वितीयां वसतिं नयति । इत्थमेव - 'णीतं वा साइज्जइ' निर्णयन्तमन्यं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति । पूर्वसूत्रे - श्रावकग्रहादानीतवस्तुन आज्ञां विना बहिर्नयने दोषः कथितः अस्मिन् सूत्रे तु वसतिस्थितश्रावकसंबन्धिवस्तुनः आज्ञां विना बहिर्नयने दोषः कथित इत्यनयोर्भेदः ॥ सू० ५४ ॥
सूत्रम् -- जे भिक्खू पाडिहारियं सागारियसंतियं वा सेज्जासंथारगं दोच्चपि अणणुण्णवेत्ता बाहि णीणेइ । णीर्णेतं वा साइज्जइ ॥ ५५॥
શ્રી નિશીથ સૂત્ર